ततः स कूजत्कलहंसमेखलां
सपाकसस्याहितपाण्डुतागुणाम् ।
उपाससादोपजनं जनप्रियः
प्रियामिवासादितयौवनां भुवम् ॥

अन्वयः AI ततः जनप्रियः सः कूजत्-कलहंस-मेखलाम्, स-पाक-सस्य-आहित-पाण्डुता-गुणाम्, आसादित-यौवनाम् प्रियाम् इव, भुवम् उपजनम् उपाससाद ।
English Summary AI Then he, beloved of the people, approached the vicinity of the land, which was like a beloved woman who has attained youth. The land had a girdle of cooing swans and possessed the quality of paleness imparted by ripening crops.
सारांश AI जनप्रिय अर्जुन ने चहकते हंसों और पकी फसलों से सुशोभित पृथ्वी के पास वैसे ही प्रवेश किया जैसे कोई प्रेमी अपनी युवती प्रिया के समीप जाता है।
घण्टापथव्याख्या (मल्लिनाथः) तत इति ॥ ततः प्रस्थानानन्तरं जनप्रियः सोऽर्जुनः । कलहंसा मेखला इवेत्युपमितसमासः । अन्यत्र कलहंसा इव मेखलेति विशेषणसमासः ।कूजन्ती कलहंसमेखला यस्यास्ताम् । सह पाकेन वर्तन्त इति सपाकानि सस्यानि तैः सस्यैराहितः संपादितः पाण्डुतैव गुणो यस्यास्तां भुवमासादितयौवनां प्राप्तयौवनां प्रियामिव । उपजनं जनसमीपे । अन्यत्र सखीसमक्षम् । समीपार्थेऽव्ययीभावः । उपाससादोपगतवान् । उपमालंकारः।
पदच्छेदः AI
ततःततस् Then
सःतद् (१.१) he
कूजत्कलहंसमेखलाम्कूजत् (√कूज्+शतृ)कलहंसमेखला (२.१) which had a girdle of cooing swans
सपाकसस्याहितपाण्डुतागुणाम्सपाकसस्यआहित (आ√धा+क्त)पाण्डुतागुण (२.१) which possessed the quality of paleness imparted by ripening crops
उपाससादउपाससाद (उप+आ√सद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) approached
उपजनम्उपजन (२.१) the vicinity
जनप्रियःजनप्रिय (१.१) beloved of the people
प्रियाम्प्रिया (२.१) a beloved woman
इवइव like
आसादितयौवनाम्आसादित (आ√सद्+णिच्+क्त)यौवन (२.१) who has attained youth
भुवम्भू (२.१) the land
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तः कू त्क हं मे लां
पा स्या हि पा ण्डु ता गु णाम्
पा सा दो नं प्रि यः
प्रि या मि वा सा दि यौ नां भु वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.