अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः
सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने ।
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं
भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥

अन्वयः AI अथ आशाः दिव्यम् दुन्दुभि-ध्वानम् अनुजगुः । व्योम्नि सुर-कुसुम-निपातैः लक्ष्मीः वितेने । अनिभृत-वेला-वीचि-बाहुः पयोधिः प्रियम् कथयिष्यन् इव स्फुरन्तीम् भुवम् आलिलिङ्ग ।
English Summary AI Then the directions echoed the divine sound of kettledrums. Splendor was spread in the sky by showers of celestial flowers. The ocean, with its arms of restless waves on the shore, embraced the throbbing earth as if about to announce something pleasant.
सारांश AI आकाश में दिव्य दुंदुभियाँ बजने लगीं और पुष्प वर्षा हुई। चंचल लहरों रूपी भुजाओं वाले समुद्र ने पृथ्वी का आलिंगन किया, मानो वह अर्जुन की भावी विजय का शुभ समाचार दे रहा हो।
घण्टापथव्याख्या (मल्लिनाथः) अनुजगुरिति ॥ अथाशा दिशः । दिवि भवं दिव्यम् । दिवादिभ्यो यत् । दुन्दुभिध्वानमनुजगुरनदध्वनुः । गायतेर्लिट् । व्योम्नि सुरकुसुमनिपातैर्लक्ष्मीर्वितेने । पुष्पवृष्टिश्चाजनिष्टेत्यर्थः । किंच । अनिभृताश्चञ्चला वेलायां कूले या वीचयस्ता एव बाहवो यस्य स तथोक्तः। वेला कूलविकारयोः इति शाश्वतः। पयोधिः स्फुरन्तीमुल्लसन्तीं हर्षात्स्पन्दमानां च भुवं प्रियमिष्टं भारावतारणरूपं कथयिष्यन्निव । कथयितुमिवेत्यर्थः । लट् शेषे च इति चकारात्क्रियार्थायां क्रियायां लृट् । आलिलिङ्ग। सर्वं चेदं शिवं दैवकार्यप्रवृत्तत्वादस्येति भावः । अत्र विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वात्समासोक्तिरलंकारः । तत्र चाप्रस्तुतयोर्भूमिसमुद्रयोः प्रतिपन्नाभ्यां नायकाभ्यां भेदेऽभेदलक्षणातिशयोक्तिवशादालिङ्गनोक्तिरिति रहस्यम् । एवमतिशयोत्यनुप्राणिता समासोक्तिः । प्रियकथनात्स्नेहमुज्जीवयति तदङ्गभावं भजत इत्युभयोरङ्गाङ्गिभावेन संकर इति विवेचनीयम्
पदच्छेदः AI
अनुजगुःअनुजगुः (अनु√गॄ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) echoed
अथअथ Then
दिव्यम्दिव्य (२.१) divine
दुन्दुभिध्वानम्दुन्दुभिध्वान (२.१) sound of kettledrums
आशाःआशा (१.३) the directions
सुरकुसुमनिपातैःसुरकुसुमनिपात (३.३) by showers of celestial flowers
व्योम्निव्योमन् (७.१) in the sky
लक्ष्मीःलक्ष्मी (१.१) splendor
वितेनेवितेने (वि√तन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) was spread
प्रियम्प्रिय (२.१) something pleasant
इवइव as if
कथयिष्यन्कथयिष्यत् (√कथ्+णिच्+स्य+शतृ, १.१) about to say
आलिलिङ्गआलिलिङ्ग (आ√लिङ्ग् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) embraced
स्फुरन्तीम्स्फुरन्ती (√स्फुर्+शतृ, २.१) throbbing
भुवम्भू (२.१) the earth
अनिभृतवेलावीचिबाहुःअनिभृतवेलावीचिबाहु (१.१) the one whose arms are the restless waves on the shore
पयोधिःपयोधि (१.१) the ocean
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
नु गु दि व्यं दु न्दु भि ध्वा मा शाः
सु कु सु नि पा तै र्व्यो म्नि क्ष्मी र्वि ते ने
प्रि मि यि ष्य न्ना लि लि ङ्ग स्फु न्तीं
भु नि भृ वे ला वी चि बा हुः यो धिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.