निरास्पदं प्रश्नकुतूहलित्व-
मस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथापि कल्याणकरीं गिरं ते
मां श्रोतुमिच्छा मुखरीकरोति ॥

अन्वयः AI निःस्पृहाणां (युष्माकम्) अस्मासु अधीनं प्रश्न-कुतूहलित्वं निरास्पदं किम् उ? तथापि ते कल्याण-करीम् गिरं श्रोतुम् इच्छा मां मुखरीकरोति ।
English Summary AI How can there be any basis for curiosity about matters concerning us in you, who are free from all desires? Nevertheless, the desire to hear your auspicious words makes me speak.
सारांश AI आप जैसे जितेन्द्रिय मुनियों से कुछ भी पूछना अनुचित है, फिर भी आपकी कल्याणकारी वाणी को सुनने की तीव्र उत्कण्ठा मुझे बोलने के लिए विवश कर रही है।
घण्टापथव्याख्या (मल्लिनाथः) निरास्पदमिति ॥ प्रश्नकुतूहलित्वं निरास्पदम् । त्वदागमनप्रयोजनप्रश्नो निरास्पदर्थ:। आस्पदं प्रतिष्ठायाम् (अष्टाध्यायी ६.१.१४६ ) इति निपातः। प्रश्नानवकाशे हेतुमाह-निःस्पृहाणाम् । एतादृशामित्यर्थः । अस्मास्वधीनमायत्तं किमु । न किंचिदस्मत्तो लभ्यमित्यर्थः । परत्वविवक्षायां सप्तमी । तथापि कल्याणकरीम् । अस्मद्धितैकहेतुमित्यर्थः । नि:वृत्तेः पारार्थ्यादिति भावः । कृञो हेतु- (अष्टाध्यायी ३.२.२० ) इति टप्रत्यये ङीप् । अतस्ते गिरं स्रोतुमिच्छा माम् । मुखं वागस्यास्तीति मुखरो निरन्तरभाषी । रप्रकरणे खमुखभ्य उपसंख्यानम् इति रः । दुर्मुखे मुखराबद्धमुखौ इत्यमरः (अमरकोशः ३.१.३६ ) । ततश्चिवप्रत्यय:। मुखरीकरोति । व्याहरयतीत्यर्थः । निःस्पृहस्यापि ते वाक्यमस्मद्धितकरत्वातव्यमिति भावः ॥
पदच्छेदः AI
निरास्पदंनिर्आस्पद (१.१) baseless
प्रश्नकुतूहलित्वम्प्रश्न–कुतूहलित्व (१.१) curiosity to ask
अस्मासुअस्मद् (७.३) in us
अधीनम्अधीन (१.१) dependent
किमुकिम् how can there be?
निःस्पृहाणाम्निर्स्पृहा (६.३) of those who are free from desires
तथापितथापि nevertheless
कल्याणकरींकल्याण–करी (२.१) welfare-bestowing
गिरंगिर् (२.१) speech
तेयुष्मद् (६.१) your
माम्अस्मद् (२.१) me
श्रोतुम्श्रोतुम् (√श्रु+तुमुन्) to hear
इच्छाइच्छा (१.१) the desire
मुखरीकरोतिमुखरीकरोति (मुखरी√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) makes talkative
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
नि रा स्प दं प्र श्न कु तू लि त्व
स्मा स्व धी नं कि मु निः स्पृ हा णाम्
था पि ल्या रीं गि रं ते
मां श्रो तु मि च्छा मु री रो ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.