Loading data... On slow networks this could take a few minutes.
100%

इत्युक्तवानुक्तिविशेषरम्यं
मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां
द्वैपायनेनाभिदधे नरेन्द्रः ॥

अन्वयः AI इति उक्ति-विशेष-रम्यम् उक्तवान् नरेन्द्रः जय-उपपत्तौ मनः समाधाय (स्थितः) । उदारचेताः (सः) द्वैपायनेन इति उदाराम् गिरम् अभिदधे ।
English Summary AI Having spoken thus in a manner charming for its excellent expression, the king composed his mind on the means of achieving victory. Then, the noble-minded king was addressed with the following lofty words by Dvaipayana (Vyasa).
सारांश AI विजय की प्राप्ति में मन लगाकर युधिष्ठिर द्वारा इस प्रकार कहे जाने पर, उदार चित्त वाले व्यास जी ने भी अत्यन्त गम्भीर और श्रेष्ठ वाणी में उत्तर दिया।
घण्टापथव्याख्या (मल्लिनाथः) इतीति ॥ इतीत्थमुक्तिविशेषरम्यमुक्तिवैचित्र्यचारु यथा तथोक्तवान् । उदारचेता मना नरेन्द्रो द्वैपायनेन व्यासेन । द्वीपमयनं स्थानं जन्मभूमिर्यस्य स द्वीपायनः। द्वैपायनस्तेन । प्रज्ञादिभ्यश्च (अष्टाध्यायी ५.४.३८ ) इति स्वार्थेऽण्प्रत्ययः । नापत्यार्थे । नडादिभ्यः फक् । तेष्वेव पाठाद्बाधितार्थत्वाच्च । जयोपपत्तौ मनः समाधाय । जयसिद्धिमपेक्ष्येत्यर्थः । इति वक्ष्यमाणप्रकारामुदारामर्थवतीं गिरमभिदध उक्तः । दुहादित्वादप्रधाने कर्मणि लिट् । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति वचनात् ॥ आदौ तावत्तस्य माध्यस्थ्यभङ्गदोषं युग्मेन परिहरतिचिचीषतां जन्मवतामलध्वीं यशोवतंसामुभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम्
पदच्छेदः AI
इतिइति Thus
उक्तवान्उक्तवत् (√वच्+क्तवतु, १.१) having spoken
उक्तिविशेषरम्यंउक्तिविशेषरम्य in a manner charming for its excellent expression
मनःमनस् (२.१) mind
समाधायसमाधाय (सम्+आ√धा+ल्यप्) having composed
जयोपपत्तौजयउपपत्ति (७.१) on the means of victory
उदारचेताःउदारचेतस् (१.१) the noble-minded one
गिरम्गिर् (२.१) speech
इतिइति as follows
उदाराम्उदार (२.१) noble
द्वैपायनेनद्वैपायन (३.१) by Dvaipayana (Vyasa)
अभिदधेअभिदधे (अभि√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) was spoken to
नरेन्द्रःनरइन्द्र (१.१) the king
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्यु क्त वा नु क्ति वि शे म्यं
नः मा धा यो त्तौ
दा चे ता गि मि त्यु दा रां
द्वै पा ने ना भि धे रे न्द्रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.