अद्य क्रियाः कामदुघाः क्रतूनां
सत्याशिषः सम्प्रति भूमिदेवाः ।
आ संसृतेरस्मि जगत्सु जात-
स्त्वय्यागते यद्बहुमानपात्रम् ॥

अन्वयः AI त्वयि आगते (सति), अद्य क्रतूनां क्रियाः कामदुघाः (जाताः), सम्प्रति भूमिदेवाः सत्य-आशिषः (जाताः), यत् (अहम्) आ संसृतेः जगत्सु जातः (सन्) बहुमान-पात्रम् अस्मि ।
English Summary AI Today, because you have arrived, the rites of our sacrifices have become wish-fulfilling, and the blessings of the Brahmins have come true. I, born in this world since creation, have now become an object of great honor.
सारांश AI आपके आने से आज मेरे यज्ञ और कर्म सफल हुए हैं और ब्राह्मणों के आशीर्वाद सत्य सिद्ध हुए हैं। सृष्टि के आरम्भ से अब तक के प्राणियों में आज मैं स्वयं को सर्वाधिक सम्मानित अनुभव कर रहा हूँ।
घण्टापथव्याख्या (मल्लिनाथः) अद्येति ॥ अद्य क्रतूनां क्रिया अनुष्ठानानि । कामान्दुहन्तीति कामदुधाः । फलो इत्यर्थः । 'दुहः कब्धश्चः' इति कप्प्रत्ययो धादेशश्च । संप्रत्यद्य भूमिदेवा ब्राह्मण एवे'द्विजात्यग्रजन्मभूदेवबाडवाः । 'विप्रश्च ब्राह्मणः' इत्यमरः । सत्याशिषो जाताः अतीता ह्मणाशिपोऽद्य फलिता इत्यर्थः । यद्यतः कारणात्वय्यागते सति । त्वदागमनेनः। उमित्तेनेत्यर्थः । अस्मीत्यहमर्थेऽव्ययम् । 'अस्मीत्यस्मदर्थानुवादेऽहमर्थेऽपि' इति वान् । व्याख्याने । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नषयादूये' इति प्रयोगाच्च । आसंसृतेरा संसारात् । यावत्संसारमित्यर्थः । 'अभिविधुच्चये' ङ्विकिल्पादसमासः । जगत्सु बहुमानपात्रं बहुयोग्यताभाजनं जातः । सकलससंगहेफलभूतं त्वदागमनं येन मे जगन्मान्यतेति भावः ॥
पदच्छेदः AI
अद्यअद्य Today
क्रियाःक्रिया (१.३) the rites
कामदुघाःकामदुघ (१.३) wish-fulfilling
क्रतूनाम्क्रतु (६.३) of sacrifices
सत्याशिषःसत्यआशिस् (१.३) whose blessings are true
सम्प्रतिसम्प्रति now
भूमिदेवाःभूमिदेव (१.३) Brahmins
from
संसृतेःसंसृति (५.१) the beginning of creation
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
जगत्सुजगत् (७.३) in the worlds
जातःजात (√जन्+क्त, १.१) born
त्वयियुष्मद् (७.१) you
आगतेआगत (आ√गम्+क्त, ७.१) having arrived
यत्यत् that
बहुमानपात्रम्बहुमानपात्र (१.१) an object of great honor
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
द्य क्रि याः का दु घाः क्र तू नां
त्या शि षः म्प्र ति भू मि दे वाः
सं सृ ते स्मि त्सु जा
स्त्व य्या ते द्ब हु मा पा त्रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.