अविलङ्घ्यविकर्षणं परैः
प्रथितज्यारवकर्म कार्मुकम् ।
अगतावरिदृष्टिगोचरं
शितनिस्त्रिंशयुजौ महेषुधी ॥

अन्वयः AI (सः) परैः अविलङ्घ्य-विकर्षणम्, प्रथित-ज्यारव-कर्म कार्मुकम्, (तथा) अगत-अरि-दृष्टि-गोचरम् शित-निस्त्रिंश-युजौ महेषुधी (बभार) ।
English Summary AI He bore the bow (Gandiva), whose drawing could not be surpassed by enemies and whose action was famed for the sound of its string. He also bore two great quivers, containing sharp swords, which had never come within the sight of his enemies.
सारांश AI अर्जुन ने अपना वह सुप्रसिद्ध धनुष धारण किया जिसे शत्रु झुका नहीं सकते थे, और साथ ही अपनी तीक्ष्ण तलवार तथा बाणों से भरे दो अक्षय तरकस भी ले लिए।
घण्टापथव्याख्या (मल्लिनाथः) अविलङ्घ्येति ॥ परैः शत्रुभिरविलङ्घ्यमनतिक्रमणीयं विकर्षणं यस्य तत् । अमोघाकर्षणमित्यर्थः । किंच प्रथितो ज्यारवो गुणध्वनिः कर्म बाणमोक्षणादिकं च यस्यः तत्कार्मुकं चोद्धहन्नित्यन्वयः । तथारीणां दृष्टिगोचरं दृष्टिपथमगतौ । आहवेष्वनिवर्तित्वादस्येति भावः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः । डप्रत्यये संख्यायास्तत्पुरुषस्योपसंख्यानात्समासान्तः । तेन शितेन तीक्ष्णेन युङ्क्त इति शितनिस्त्रिंशयुजौ । सत्सूद्धिय-इत्यादिना क्विप्। महेषुधी महानिषङ्गौ । इषवो धीयन्तेऽनयोरिति विग्रहः । कर्मण्यधिकरणे च (अष्टाध्यायी ३.३.९३ ) इति किप्रत्ययः । तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः । तूण्यां खड्गे तु निस्त्रिंशचन्द्राहासासिरिष्टय:॥ इत्यमरः (अमरकोशः २.८.८८ )
पदच्छेदः AI
अविलङ्घ्यविकर्षणम्अविलङ्घ्य (वि√लङ्घ्+यत्)विकर्षण (२.१) whose drawing is unsurpassable
परैःपर (३.३) by enemies
प्रथितज्यारवकर्मप्रथितज्यारवकर्मन् (२.१) whose action is famed for the sound of its string
कार्मुकम्कार्मुक (२.१) the bow
अगतावरिदृष्टिगोचरम्अगत (√गम्+क्त)अरिदृष्टिगोचर (२.१) which had not come within the sight of enemies
शितनिस्त्रिंशयुजौशितनिस्त्रिंशयुज् (२.२) containing a pair of sharp swords
महेषुधीमहाइषुधि (२.२) two great quivers
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि ङ्घ्य वि र्ष णं रैः
प्र थि ज्या र्म का र्मु कम्
ता रि दृ ष्टि गो रं
शि नि स्त्रिं यु जौ हे षु धी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.