तदाशु कुर्वन्वचनं महर्षे-
र्मनोरथान्नः सफलीकुरुष्व ।
प्रत्यागतं त्वास्मि कृतार्थमेव
स्तनोपपीडं परिरब्धुकामा ॥

अन्वयः AI तत् महर्षेः वचनम् आशु कुर्वन् नः मनोरथान् सफलीकुरुष्व । (अहम्) कृतार्थम् एव प्रत्यागतम् त्वा स्तन-उपपीडम् परिरब्धुकामा अस्मि ।
English Summary AI Therefore, by quickly following the great sage's command, fulfill our desires. I am desirous of embracing you tightly, with my breasts pressed against you, upon your return after having accomplished your purpose.
सारांश AI महर्षि व्यास के आदेश का शीघ्र पालन कर हमारी मनोकामना पूर्ण करें। मैं आपके सफल होकर लौटने पर सप्रेम आलिंगन करने की तीव्र इच्छा रखती हूँ।
घण्टापथव्याख्या (मल्लिनाथः) तदिति ॥ तत्तस्मात्कारणात् । आशु शीघ्रं महर्षेर्वचनं कुर्वन् । तपस्यन्नित्यर्थः। नोऽस्माकं मनोरथान्सफलीकुरुष्व । अरिनिर्यातनेनास्मान्प्रतिष्ठापयेत्यर्थः । प्रार्थनायां लोट्। किंच कृतार्थं कृतकृत्यं प्रत्यागतमेव त्वा त्वाम् । त्वामौ द्वितीयायाः (अष्टाध्यायी ८.१.२३ ) इति त्वादेशः । स्तनयोरुपपीड्य स्तनोपपीडम् । सप्तम्यां चोपपीडरुधकर्षः (अष्टाध्यायी ३.४.४९ ) इति णमुल् । परिरब्धुं कामो यस्याः सा परिरब्धुकामास्मि । आलिङ्गितुमिच्छामीत्यर्थः। तुंकाममनसोरपि इति मकारलोपः। प्राक्कार्यसिद्धेः प्रमदालिङ्गनमपि न प्रीतिदमिति भावः ॥
पदच्छेदः AI
तत्तत् Therefore
आशुआशु quickly
कुर्वन्कुर्वत् (√कृ+शतृ, १.१) by doing
वचनम्वचन (२.१) the command
महर्षेःमहर्षि (६.१) of the great sage
मनोरथान्मनोरथ (२.३) desires
नःअस्मद् (६.३) our
सफलीकुरुष्वसफलीकुरुष्व (सफली√कृ कर्तरि लोट् (आत्मने.) म.पु. एक.) make fruitful
प्रत्यागतम्प्रत्यागत (प्रति+आ√गम्+क्त, २.१) returned
त्वायुष्मद् (२.१) you
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
कृतार्थम्कृतार्थ (२.१) having accomplished your purpose
एवएव indeed
स्तनोपपीडम्स्तनउपपीडम् (उप√पीड्+णमुल्) so as to press the breasts
परिरब्धुकामापरिरब्धुकाम (परि√रभ्+तुमुन्+कामच्, १.१) desirous of embracing
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
दा शु कु र्व न्व नं र्षे
र्म नो था न्नः ली कु रु ष्व
प्र त्या तं त्वा स्मि कृ ता र्थ मे
स्त नो पी डं रि ब्धु का मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.