मा गाश्चिरायैकचरः प्रमादं
वसन्नसम्बाधशिवेऽपि देशे ।
मात्सर्यरागोपहतात्मनां हि
स्खलन्ति साधुष्वपि मानसानि ॥

अन्वयः AI एकचरः (त्वम्) असम्बाधशिवे देशे वसन् अपि चिराय प्रमादम् मा गाः । हि मात्सर्य-राग-उपहत-आत्मनाम् मानसानि साधुषु अपि स्खलन्ति ।
English Summary AI Wandering alone, do not fall into negligence for long, even while dwelling in a safe and auspicious place. For the minds of those whose souls are afflicted by jealousy and passion falter even towards the virtuous.
सारांश AI एकाकी प्रवास में सुरक्षित स्थान पर भी प्रमाद न करें। ईर्ष्या और द्वेष से भरे शत्रुओं की बुद्धि सज्जनों के प्रति भी सदैव कुटिल चालें चलने में लगी रहती है।
घण्टापथव्याख्या (मल्लिनाथः) भागा इति ॥ असंबाधोऽसंकटः। विजन इत्यर्थः। संकटं ना तु संबाधः इत्यमरः । शिवो निर्बाधः । द्वयोरन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः । अस्मिन्नसंबाधशिवेऽपि देशे चिराय चिरमेकश्चासौ चरश्चेत्येकचर एकाकी वसन्प्रमादं दौर्बल्यं मा गा: । इणो गा लुङि (अष्टाध्यायी २.४.४५ ) इति गादेशः। नतु निःस्पृहस्य ममाकिंचित्करः प्रमाद इति वाच्यमित्याशङ्क्याह-मात्सर्येति । मत्सर एव मात्सर्यं द्वेषो रागः स्नेहस्ताभ्यामुपहत्तात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेष्वपि विषयेस्खलन्ति विकुर्वते हि । अत्र प्रमादनिषेधलब्धाप्रमादरूपकारणेनार्थप्राप्तिरूपकार्यस्य व्यतिरेककारणसमर्थनाद्वैधर्म्येण कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ निगमयति
पदच्छेदः AI
मामा do not
गाःगाः (√गम् कर्तरि लुङ् (परस्मै.) म.पु. एक.) go
चिरायचिराय for a long time
एकचरःएकचर (१.१) wandering alone
प्रमादम्प्रमाद (२.१) into negligence
वसन्वसत् (√वस्+शतृ, १.१) dwelling
असम्बाधशिवेअसम्बाधशिव (७.१) in an unobstructed and auspicious
अपिअपि even
देशेदेश (७.१) place
मात्सर्यरागोपहतात्मनाम्मात्सर्यरागउपहत (उप√हन्+क्त)आत्मन् (६.३) of those whose souls are afflicted by jealousy and passion
हिहि for
स्खलन्तिस्खलन्ति (√स्खल् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) falter
साधुषुसाधु (७.३) towards the virtuous
अपिअपि even
मानसानिमानस (१.३) minds
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मा गा श्चि रा यै रः प्र मा दं
न्न म्बा शि वे ऽपि दे शे
मा त्स र्य रा गो ता त्म नां हि
स्ख न्ति सा धु ष्व पि मा सा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.