प्रियेषु यैः पार्थ विनोपपत्ते-
र्विचिन्त्यमानैः क्लममेति चेतः ।
तव प्रयातस्य जयाय तेषां
क्रियादघानां मघवा विघातम् ॥

अन्वयः AI पार्थ, यैः प्रियेषु उपपत्तेः विना विचिन्त्यमानैः चेतः क्लमम् एति, जयाय प्रयातस्य तव तेषाम् अघानाम् मघवा विघातम् क्रियात् ।
English Summary AI O Partha, may Indra destroy those obstacles of yours, the thought of which, without any justification towards your loved ones, causes the heart distress. May he do so for your victory as you set out.
सारांश AI हे पार्थ! आपके वियोग और मार्ग के कष्टों के विचार मात्र से मेरा मन व्याकुल होता है। विजय के लिए प्रस्थान करने वाले आपके मार्ग की सभी बाधाओं को देवराज इंद्र दूर करें।
घण्टापथव्याख्या (मल्लिनाथः) प्रियेष्विति ॥ हे पार्थ, प्रियेष्वस्मासु विषय उपपत्तेः कारणाद्विनैव विचिन्त्यमानैरकस्मादेवाशङ्क्यमानैर्यैरधैश्चेतः क्लमं खेदमेति । जयाय प्रयातस्य तव संबन्धिनां तेषामघानां व्यसनानाम्। दुःखैनोव्यसनेष्वघम् इत्यमरः। मधवेन्द्रः । योऽस्माभिरुपा स्यत इति भावः । विघातं निवारणं क्रियात्करोतु । आशिषि लिङ् । तस्मादस्मच्चिन्तया न चेतः खेदयितव्यं जयार्थिना त्वया । अन्यथा तदसंभवादिति भावः ॥ भागाश्चिरायैकचरः प्रमादं वसन्नसंबाधशिवेऽपि देशे। मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि
पदच्छेदः AI
प्रियेषुप्रिय (७.३) towards loved ones
यैःयद् (३.३) by which
पार्थपार्थ (८.१) O Partha
विनाविना without
उपपत्तेःउपपत्ति (५.१) justification
विचिन्त्यमानैःविचिन्त्यमान (वि√चिन्त्+यक्+शानच्, ३.३) being thought of
क्लमम्क्लम (२.१) distress
एतिएति (√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) attains
चेतःचेतस् (१.१) the heart
तवयुष्मद् (६.१) your
प्रयातस्यप्रयात (प्र√या+क्त, ६.१) of you who has set out
जयायजय (४.१) for victory
तेषाम्तद् (६.३) of those
क्रियात्क्रियात् (√कृ कर्तरि आशीर्लिङ् (परस्मै.) प्र.पु. एक.) may he do
अघानाम्अघ (६.३) of obstacles
मघवामघवन् (१.१) Indra
विघातम्विघात (२.१) destruction
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
प्रि ये षु यैः पा र्थ वि नो त्ते
र्वि चि न्त्य मा नैः क्ल मे ति चे तः
प्र या स्य या ते षां
क्रि या घा नां वा वि घा तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.