Loading data... On slow networks this could take a few minutes.
100%

स क्षत्त्रियस्त्राणसहः सतां
यस्तत्कार्मुकं कर्मसु यस्य शक्त्- ।
इः वहन्द्वयीं यद्यफलेऽर्थजाते
करोत्यसंस्कारहतामिवोक्तिम् ॥

अन्वयः AI यः सताम् त्राणसहः सः क्षत्त्रियः, यस्य कर्मसु शक्तिः तत् कार्मुकम् । यदि (सः) अफले अर्थजाते द्वयीम् वहन् असंस्कारहताम् उक्तिम् इव करोति (तत् व्यर्थम्) ।
English Summary AI He is a true Kshatriya who is capable of protecting the virtuous, and that is a true bow which has power in action. If one, carrying this pair (of being a Kshatriya and having a bow), renders them like unrefined speech in a fruitless endeavor, it is a waste.
सारांश AI सच्चा क्षत्रिय वही है जो रक्षा करे और श्रेष्ठ धनुष वही है जिसमें कर्म की शक्ति हो। यदि फल की प्राप्ति न हो, तो पुरुषार्थ और शस्त्र दोनों संस्कारहीन वाणी की भांति व्यर्थ हैं।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ क्षतात्रयत इति क्षत्रं क्षत्रियकुलम्। 'सुपि' इति योगविभागात्कप्रत्ययः पृषोदरादित्वात्पूर्वपदस्यान्त्यलोपः। अथवा क्षदिति क्विबन्तोपपदात्कंप्रत्ययः । क्षत्रे जातः क्षत्रियः । 'क्षत्राद्धः' इति घप्रत्ययः । कर्मणे प्रभवतीति कार्मुकम् । कर्मण उकञ् (अष्टाध्यायी ५.१.१०३ ) इत्युकञ्प्रत्ययः । एवं स्थिते वाक्यार्थः कथ्यते । यः सतां साधूनाम् । सहत इति सहः । पचाद्यच् । यस्त्राणस्य सहस्त्राणसहो रक्षणक्षमः स एव क्षत्रियशब्दवाच्यः । तथा यस्य कार्मुकस्य कर्मसु रणक्रियासु शक्तिः । अस्तीति शेषः । तदेव कार्मुकशब्दवाच्यम् । अत्रैवैतौ शब्दौ मुख्यौ । नान्यत्रेत्यर्थः । एवं स्थिते द्वयीं द्विविधामुक्तिम् । द्वाविमौ क्षत्रियकार्मुकशब्दावित्यर्थः । अफले । पूर्वोक्तावयवार्थशून्ये अर्थजाते। स्वाभिधेयसामान्यजातिमात्र इत्यर्थः ।'जातं जात्योधजन्मसुः इति विश्वः । वहन्वर्तयन् । संस्कारहतामव्युत्पत्तिदूषितामिव करोतीत्युत्प्रेक्षा । तस्मात्त्वमस्मद्रक्षणेनोक्तदोषादात्मानं मोचयस्वेत्यर्थः ॥ अथ त्वद्गुणा अपि नोज्जीवयेयुरित्याहवीतौजसः संनिधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः । समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते
पदच्छेदः AI
सःतद् (१.१) He
क्षत्रियःक्षत्रिय (१.१) is a kshatriya
त्राणसहःत्राणसह (१.१) who is capable of protecting
सताम्सत् (६.३) the virtuous
यःयद् (१.१) who
तत्तद् (१.१) that
कार्मुकम्कार्मुक (१.१) is a bow
कर्मसुकर्मन् (७.३) in actions
यस्ययद् (६.१) whose
शक्तिःशक्ति (१.१) power is
वहन्वहत् (√वह्+शतृ, १.१) carrying
द्वयीम्द्वयी (२.१) the pair
यदियदि if
अफलेअफल (७.१) in a fruitless
अर्थजातेअर्थजात (७.१) collection of objectives
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) makes
असंस्कारहताम्असंस्कारहत (√हन्+क्त, २.१) like unrefined
इवइव like
उक्तिम्उक्ति (२.१) speech
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
क्ष त्त्रि स्त्रा हः तां
स्त त्का र्मु कं र्म सु स्य क्तिः
न्द्व यीं द्य ले ऽर्थ जा ते
रो त्य सं स्का ता मि वो क्तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.