प्रसह्य योऽस्मासु परैः प्रयुक्तः
स्मर्तुं न शक्यः किमुताधिकर्तुम् ।
नवीकरिष्यत्युपशुष्यदार्द्रः
स त्वद्विना मे हृदयं निकारः ॥

सारांश AI शत्रुओं द्वारा किया गया वह असह्य अपमान, जिसे भूलना असंभव है, आपके बिना मेरे हृदय को निरंतर संताप देगा और मेरे घावों को सदैव हरा रखेगा।
घण्टापथव्याख्या (मल्लिनाथः) प्रसह्येति ॥ पुनश्च । परैः शत्रुभिरस्मासु प्रसह्य प्रयुक्त आचरितो यो निकारः परिभवः केशाकर्षणरूपः स्मर्तुं न शक्यः । अधिकर्तुमनुभवितुं किमुत। यस्य स्मरणमपि दुःसहमनुभवस्तु दुःसह इति किमु वक्तव्यमित्यर्थः । स निकारस्त्वद्विना त्वया विना। पृथग्विना- (अष्टाध्यायी २.३.३२ ) इत्यादिना पञ्चमी । आर्द्रः सन्कुतश्चिदभिभूतात्पुराणप्रहार इव । त्वद्विरहदुःखात्पुनर्नवीकरिष्यति । नवीभविष्यतीत्यर्थः । उपशुष्यत् । त्वया विना शुष्कमिति भावः । दुःखस्तम्भनं शोषपदार्थों मे हृदयं नवीकरिष्यत्यार्द्रीकरिष्यति । व्रणमिवेति भावः । दुःखितस्य पुनर्दुःखोपचयः प्रशान्तप्रायमपि दुःखहेतुं पुनरुद्धाटयतीत्यर्थः । अत्र शोषादिविशेषणसाम्याद्व्रणाद्यप्रस्तुतार्थप्रतीतेः समासोक्तिरलंकारः ॥ पुनः प्रकारान्तरेण मन्युमुद्दीपयति प्राप्तः' इत्यादिभिस्त्रिभिः । तत्र वक्ष्यमाणप्रत्यभिज्ञानहेतुभिर्धनंजयं विशिनष्टि
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्र ह्य यो ऽस्मा सु रैः प्र यु क्तः
स्म र्तुं क्यः कि मु ता धि र्तुम्
वी रि ष्य त्यु शु ष्य दा र्द्रः
त्व द्वि ना मे हृ यं नि का रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.