व्रीडानतैराप्तजनोपनीतः
संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।
वितानभूतं विततं पृथिव्यां
यशः समूहन्निव दिग्विकीर्णम् ॥

सारांश AI पूर्व में जो यश संपूर्ण पृथ्वी पर फैला था और जिसे पराजित राजा अत्यंत विनय के साथ आपके पास लाते थे, आप उसी गौरवशाली यश को अब विस्मृत कर रहे हैं।
घण्टापथव्याख्या (मल्लिनाथः) व्रीडेति ॥ पुनश्च । आप्तजनेनोपनीतः साधितः । प्रापित इत्यर्थः । तथापि संशय्य संदिह्य । असंभावितबुद्ध्येति भावः । व्रीडानतैः।जुगुप्सितवृत्तान्तश्रवणादिति भावः। नृपैर्देशान्तरस्थैः कृच्छ्रेण प्रपन्नः । आप्तोक्तत्वात्कथंचिद्विश्वस्त इत्यर्थः । यः शृण्वतामपि दुःसहः किमुतानुभवतामिति भावः । इत्येषा पूर्वेषां व्याख्या । अन्यथा च व्याख्यायते-आप्तजनोपनीतो ज्ञातिकृतः संशय्य कथमिदमन्याय्यमुपेक्ष्यामिति विचार्य व्रीडानतैः । जुगुप्सितकर्मदर्शनादिति भावः । नृपैस्तत्रत्यैः कृच्छ्रेण प्रपन्नोऽङ्गीकृतः । गोत्रकलहेषु मध्यस्थैरुदासितव्यमिति बुद्ध्योपेक्षित इत्यर्थः । पक्षद्वयेऽपि प्रपन्न इत्यत्राप्तजनोपनीतत्वस्य पदार्थभूतस्य विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलंकारः। पृथिव्यां वितानभूतमुल्लोचोपमितम् । यद्वा वितानभूतं वितानसमम् । उल्लोचतुल्यमिति यावत् । “युक्ते क्ष्मादावृते भूते प्राण्यतीते समे त्रिषु' इत्यमरः। 'अस्त्री वितानमुल्लोचः' इत्यमरः । दिग्विकीर्णं दिगन्तलग्नम् । वितानमपि दिगन्तलग्नमिति भावः । विततं प्रथितं यशः समूहन्निव संकोचयन्निवेत्युत्प्रेक्षा । अरातिपरिभूतस्य कुतः कीर्तिरिति भावः ।
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
व्री डा तै रा प्त नो नी तः
सं य्य कृ च्छ्रे नृ पैः प्र न्नः
वि ता भू तं वि तं पृ थि व्यां
शः मू न्नि दि ग्वि की र्णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.