Loading data... On slow networks this could take a few minutes.
100%

लोकं विधात्रा विहितस्य गोप्तुं
क्षत्त्रस्य मुष्णन्वसु जैत्रमोजः ।
तेजस्विताया विजयैकवृत्ते-
र्निघ्नन्प्रियं प्राणमिवाभिमानम् ॥

सारांश AI ब्रह्मा द्वारा जगत की रक्षा के लिए निर्मित क्षत्रिय तेज को आप नष्ट कर रहे हैं। आप अपने उस स्वाभिमान को त्याग रहे हैं जो प्राणों के समान प्रिय और विजय का एकमात्र आधार है।
घण्टापथव्याख्या (मल्लिनाथः) लोकमिति ॥ विधात्रा ब्रह्मणा लोकं गोप्तुं विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजाते: संबन्धि । जयनशीलं जेतृ तदेव जैत्रम् । जेतृशब्दातृन्नन्तात् प्रज्ञादिभ्यश्च (अष्टाध्यायी ५.४.३८ ) इति स्वार्थेऽण्प्रत्ययः । ओजो बलं दीप्तिर्वा । ओजो बले च दीप्तौ च इति विश्वः। तदेव वसु धनमिति रूपकालंकारः । मुष्णन्नपहरन् । अरिनिकृतस्य कुतः क्षात्रं तेज इति भावः। किंच विजयैकवृत्तेर्विजयैकजीवितायाः । क्षत्रियस्य विजितव्यम् इति स्मरणादिति भावः । वृत्तिर्वर्तनजीवने इत्यमरः (अमरकोशः २.९.१ ) । तेजस्वितायाः। तेजस्विनामित्यर्थः। तेज:प्राधान्यद्योतनार्थं भावप्रधानो निर्देशः । प्रियं प्राणमिव । प्राणसममित्यर्थः । अभिमानमहंकारं निघ्नन्खण्डयन् । तेजस्विनां प्राणहानिप्राया मानहानिरिति भावः ॥ अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि न त्याज्यामित्याह
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
लो कं वि धा त्रा वि हि स्य गो प्तुं
क्ष त्त्र स्य मु ष्ण न्व सु जै त्र मो जः
ते स्वि ता या वि यै वृ त्ते
र्नि घ्न न्प्रि यं प्रा मि वा भि मा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.