यशोऽधिगन्तुं सुखलिप्सया वा
मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोग्गभाजां
समुत्सुकेवाङ्कमुपैति सिद्धिः ॥

सारांश AI जो व्यक्ति यश, सुख या प्रसिद्धि की लालसा से मुक्त होकर केवल अपने पुरुषार्थ में लगा रहता है, सिद्धि स्वयं उत्सुक होकर उसका वरण करती है।
घण्टापथव्याख्या (मल्लिनाथः) यश इति ॥ यशोऽधिगन्तुम् । कीर्ति लब्धुमित्यर्थः । सुखस्य लिप्सया लब्धुमिच्छया वा । मनुष्यसंख्यां मनुष्यगणनामतिवर्तितुमतिक्रमितुं वा । अमानुषं कर्म कर्तुं वेत्यर्थः । अभियोगभाजामभिनिवेशवतां निरुत्सुकानामनुत्सुकानाम् । अदुर्मनायमानानामित्यर्थः । सिद्धिः पूर्वोक्तं यशः सुखाद्यर्थसिद्धिश्च । समुत्सुकेवानुरक्तकान्तेस्वाङ्कमुत्सङ्गमन्तिकं चोपैति। तस्मादसद्विरहदुःखमातपःसिद्धेः सोढव्यमिति भावः ॥ अथास्य मन्यूद्दीपनद्वारा तपःप्रवृत्तिं प्रथयितुमरिनिकारं तावच्चतुर्भिरुद्घाटयति
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
शो ऽधि न्तुं सु लि प्स या वा
नु ष्य सं ख्या ति र्ति तुं वा
नि रु त्सु का ना भि यो ग्ग भा जां
मु त्सु के वा ङ्क मु पै ति सि द्धिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.