मग्नां द्विषच्छद्मनि पङ्कभूते
सम्भवानां भूतिमिवोद्धरिष्यन् ।
आधिद्विषामा तपसां प्रसिद्धे-
रस्मद्विना मा भृशमुन्मनीभूः ॥

सारांश AI शत्रुओं के छल-कपट रूपी कीचड़ में फंसी कुल-मर्यादा के उद्धार के लिए तपस्या करने हेतु जाते समय, आप हमारे वियोग में अत्यधिक दुखी न हों।
घण्टापथव्याख्या (मल्लिनाथः) मग्नामिति ॥ पङ्कभूते पङ्कोपमिते । भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः इति विश्वः । द्विषच्छद्मनि शत्रुकपटे मग्नाम् । दुरुद्धरामित्यर्थः । संभावनां योग्यताम् । गौरवमिति यावत् । भूतिं संपदमिव । भूतिर्मस्मनि संपदि इत्यमरः । उद्धरिष्यन् । उद्धारकस्त्वमिति शेषः । आधिद्विषां दुःखच्छिदां तपसामा प्रसिद्धेः सम्यक्सिद्धिपर्यन्तमस्मद्विना । अस्माभिर्विनेत्यर्थः । पृथग्विना— (अष्टाध्यायी २.३.३२ ) इत्यादिना विकल्पात्पञ्चमी । भृशं मोन्मनीभूः । अस्मद्विरहाद्दुर्मना मा भूरित्यर्थः । दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः।माङि- इत्याशीरर्थे लुङ्।न माङयोगे इत्यडागमप्रतिषेधः । अनुन्मना उन्मनाः संपद्यमान उन्मनी । अभूततद्भावे च्वि: । अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च (अष्टाध्यायी ५.४.५१ ) इति सकारलोपः । अस्य च्चौ इतीकारः ॥ अथानौत्सुक्यदार्ढ्यार्थं तस्य सर्वार्थसिद्धिनिदानत्वमाह
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ग्नां द्वि च्छ द्म नि ङ्क भू ते
म्भ वा नां भू ति मि वो द्ध रि ष्यन्
धि द्वि षा मा सां प्र सि द्धे
स्म द्वि ना मा भृ मु न्म नी भूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.