अकृत्रिमप्रेमरसाभिरामं
रामार्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामं
जग्राह पाथेयमिवेन्द्रसूनुः ॥

सारांश AI अर्जुन ने द्रौपदी के स्वाभाविक प्रेम और श्रद्धा से भरी उस दृष्टि को अपनी कठिन यात्रा के लिए पाथेय की तरह हृदय में संजो लिया।
घण्टापथव्याख्या (मल्लिनाथः) अकृत्रिमेति ॥ इन्द्रसूनुरर्जुनः । क्रियया निवृत्तः कृत्रिमः । ड्वितः क्विः इति क्वित्रः। त्रेर्मन्नित्यम्इति मम्प्रत्ययः। तद्विरुद्धम् । प्रेमैव रसः। अकृत्रिमेण प्रेमरसेनाभिरामम् । अन्यत्र प्रेमरसेन मधुरादिना चाभिरामम् । रामया रमण्यार्पितम् । दृष्टिं विलोभयतीति दृष्टिविलोभि । दृष्टिप्रियमित्यर्थः । दृष्टं दर्शनम् ।नपुंसके भावे क्तः । मनःप्रसादः । प्रसन्नं मन इत्यर्थः । सोऽञ्जलिरिवेत्युपमितसमासः । तेन मनःप्रसादाञ्जलिना । पथि साधु पाथेयं शम्बलमिव । पथ्यतिथिवसतिस्वपतेर्ढञ् (अष्टाध्यायी ४.४.१०४ ) । निकाममतिशयेन जग्राह । रामार्पितं पाथेयं पथि क्षेमाय भवतीत्यागमः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
कृ त्रि प्रे सा भि रा मं
रा मा र्पि तं दृ ष्टि वि लो भि दृ ष्टम्
नः प्र सा दा ञ्ज लि ना नि का मं
ग्रा पा थे मि वे न्द्र सू नुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.