धैर्येण विश्वास्यतया महर्षे-
स्तीव्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः
स तेषु न स्थानमवाप शोकः ॥

सारांश AI व्यास जी पर अटूट विश्वास और शत्रुओं के प्रति भारी क्रोध के बावजूद, भाइयों के मन में अर्जुन के बिछोह का दुख ठहर ही गया।
घण्टापथव्याख्या (मल्लिनाथः) धैर्येणेति ॥ धैर्येण तेषां निसर्गतो निर्विकारचित्तत्वेन तथा महर्षेर्व्यासस्य । प्रवर्तकस्येति शेषः । विश्वास्यतया । श्रद्धेयवचनत्वेनेत्यर्थः । अरातिप्रभवादरातिहेतुकात्तीव्राहुःसहान्मन्योः क्रोधाद्धेतोस्तथार्जुनप्रभावपरिज्ञानाच्चेति । हेत्वन्तरं विशेषणमुखेनाहमघोनः सुतेऽर्जुने वीर्यं च । न लोक— (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः। विद्वत्सु ज्ञातवत्स्विति यावत् । विदेः शतुर्वसुः (अष्टाध्यायी ७.१.३६ ) इति वैकल्पिको वस्त्रादेशः। तेषु पार्थेषु स शोकः स्थानं स्थितिं नावाप न प्राप ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
धै र्ये वि श्वा स्य या र्षे
स्ती व्रा रा ति प्र वा च्च न्योः
वी र्यं वि द्व त्सु सु ते घो नः
ते षु स्था वा शो कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.