असंशयालोचितकार्यनुन्नः
प्रेम्णा समानीय विभज्यमानः ।
तुल्याद्विभागादिव तन्मनोभि-
र्दुःखातिभारोऽपि लघुः स मेने ॥

सारांश AI अर्जुन के जाने का दुख भाइयों के बीच समान रूप से बँटा होने के कारण और प्रेम की अधिकता के कारण कुछ कम कष्टकारी प्रतीत हो रहा था।
घण्टापथव्याख्या (मल्लिनाथः) असंशयेति ॥ असंशयमसंदिग्धं यथा तथालोचितं विवेचितं यत्कार्यं तेन नुन्नो निरस्त इति लघुत्वहेतूक्तिः । नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (अष्टाध्यायी ८.२.५६ ) इति निष्ठानत्वम् । कार्यगौरवमालोच्य निरस्त इत्यर्थः । तथापि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा समानीय पुनराकृष्य विभज्यमानः समशोभागी क्रियमाणः । तुल्येन प्रेम्णा तुल्यदुःखत्वं भवतीति भावः । स पूर्वोक्तो दुःखमेवातिभारोऽपि । अतिभारभूतमपि दुःखमित्यर्थ:। तन्मनोभिस्तेषां चतुर्णां पार्थानां मनोभिस्तुल्याद्विभागादिव । पूर्वोक्तात्प्रेमकृतात्समविभागादिवेत्यर्थः । वस्तुतस्तु विवेकादेवेति भावः। पुनर्विभागग्रहणं तस्य हेतुत्वोत्प्रेक्षार्थमनुवादाददोषः । लघुर्मेने मतः। यथैकोऽनेकधा विभज्य बहुभिरुह्यमानो महानपि भारो लघुर्मन्यते तद्वदित्यर्थः ॥ अथैवं प्रेम्णाकृष्यमाणमपि शोकं विवेको निर्जिगायेत्याह
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सं या लो चि का र्य नु न्नः
प्रे म्णा मा नी वि ज्य मा नः
तु ल्या द्वि भा गा दि न्म नो भि
र्दुः खा ति भा रो ऽपि घुः मे ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.