अथोष्णभासेव सुमेरुकुञ्जा-
न्विहीयमानानुदयाय तेन ।
बृहद्द्युतीन्दुःखकृतात्मलाभं
तमः शनैः पाण्डुसुतान्प्रपेदे ॥

सारांश AI जैसे सूर्य के सुमेरु पर्वत से हटने पर अंधकार बढ़ता है, वैसे ही अर्जुन के जाने पर अन्य पांडव गहरे और असहनीय शोक में डूब गए।
घण्टापथव्याख्या (मल्लिनाथः) अथेति ॥ अथोष्णभासा सूर्येणोदयाय पुनरुद्गमाय विहीयमानांस्त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः। बृहद्द्युतीन्।सौवर्णत्वाद्दीप्यमानानित्यर्थः । इति तमसः संकोचकारणोक्तिः। सुमेरुकुञ्जानिव। अत्र सुमेरुग्रहणं कुञ्जानां सौवर्णत्वद्योतनार्थम् । तेनार्जुनेनोदयाय श्रेयसे विहीयमानान्बृहद्द्युतीननेकबुद्धिप्रकाशान् । पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसंधेयम् । पाण्डुसुतान् । चतुर इति शेषः । दुःखेन कृच्छ्रेण कृत उपपादित आत्मलाभ उत्पत्तिर्यस्य तत्तथोक्तम् । तेषां विवेकित्वात्कथंचिल्लब्धोदयमित्यर्थः । तमः शोकोऽन्धकारश्च । तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे इत्युभयत्रापि विश्वः । शनैर्मन्दं प्रपेदे । तेषां विवेकित्वाद्भीतभीतमिवेति भावः । अत्र तमःशब्दस्य श्लिष्टत्वाच्छ्लेषानुप्राणितेयमुपमा ॥
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
थो ष्ण भा से सु मे रु कु ञ्जा
न्वि ही मा ना नु या ते
बृ द्द्यु ती न्दुः कृ ता त्म ला भं
मः नैः पा ण्डु सु ता न्प्र पे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.