कृतानतिर्व्याहृतसान्त्ववादे
जातस्पृहः पुण्यजनः स जिष्णौ ।
इयाय सख्याविव सम्प्रसादं
विश्वासयत्याशु सतां हि योगः ॥

सारांश AI अर्जुन को प्रणाम कर और मधुर वाणी बोलकर वह यक्ष उनके प्रति स्नेह से भर गया, क्योंकि सज्जनों का साथ शीघ्र ही परस्पर विश्वास जगा देता है।
घण्टापथव्याख्या (मल्लिनाथः) कृतेति ॥ स पुण्यजनो यक्षः कृतानतिः कृतप्रणामः सन्व्याहृतसान्त्ववादे उक्तप्रियवचने । व्याहार उक्तिर्लपितम् इत्यमरः (अमरकोशः १.६.१ ) । जिष्णावर्जुने जातस्पृहो जातानुरागः सन् । संख्यौ सुहृदीव । अथ मित्रं सखा सुहृत् इत्यमरः (अमरकोशः २.८.१२ ) । संप्रसादं विश्रम्भमियाय प्राप । तथाहि । सतां साधूनां योगः संगतिराशु विश्वासयति विश्वासं जनयति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
कृ ता ति र्व्या हृ सा न्त्व वा दे
जा स्पृ हः पु ण्य नः जि ष्णौ
या ख्या वि म्प्र सा दं
वि श्वा त्या शु तां हि यो गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.