इति ब्रुवाणेन महेन्द्रसूनुं
महर्षिणा तेन तिरोबभूवे ।
तं राजराजानुचरोऽस्य साक्षा-
त्प्रदेशमादेशमिवाधितस्थौ ॥

सारांश AI अर्जुन को यह निर्देश देकर महर्षि व्यास अंतर्ध्यान हो गए और कुबेर का वह सेवक (यक्ष) व्यास जी की आज्ञा का पालन करने हेतु उपस्थित हुआ।
घण्टापथव्याख्या (मल्लिनाथः) इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता । वर्तमानसामीप्ये (अष्टाध्यायी ३.३.१३१ ) इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः । तेन महर्षिणा व्यासेन तिरोबभूवेऽन्तर्दधे । भावे लिट् । राजराजो यक्षराजः । 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियश क्रयोः' इति विश्वः । तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिध प्रदेशमर्जुनाधिष्ठितस्थानमधितष्ठौ । प्राप्त इत्यर्थः । स्थादिष्वभ्यासेन चाभ्यासस्य' इति षत्वम् ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ति ब्रु वा णे हे न्द्र सू नुं
र्षि णा ते ति रो भू वे
तं रा रा जा नु रो ऽस्य सा क्षा
त्प्र दे मा दे मि वा धि स्थौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.