Loading data... On slow networks this could take a few minutes.
100%

आकारमाशंसितभूरिलाभं
दधानमन्तःकरणानुरूपम् ।
नियोजयिष्यन्विजयोदये तं
तपःसमाधौ मुनिरित्युवाच ॥

सारांश AI अर्जुन की मुखाकृति को भारी सफलता के योग्य जानकर, व्यास जी ने उन्हें विजय प्राप्ति हेतु तपस्या में लगाने के लिए यह निर्देश दिया।
घण्टापथव्याख्या (मल्लिनाथः) आकारमिति ॥ आशंसित आख्यातो भूरिलाभोऽनेकश्रेयःप्राप्तिर्येन तं तथोक्तम् । महाभाग्यसूचकमित्यर्थः । अन्तःकरणशब्देन तद्वृत्तिरुत्साहो लक्ष्यते। तदनुरूपं तदनुकूलम् । उत्साहानुगुणव्यापारक्षममित्यर्थः । आकारं मूर्तिं दधानं तमर्जुनं मुनिर्विजयोदये विजयफलके तप:समाधौ तपोनियमे । समाधिनियमे ध्याने नीवाके च समर्थने इति विश्वः । नियोजयिष्यन् । नियोजयितुमिच्छन्नित्यर्थः । लट् शेषे च इति लट् । लृटः सद्वा इति सत्प्रत्ययः (अष्टाध्यायी ३.१.१ ) । इति वक्ष्यमाणमुवाच ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
का मा शं सि भू रि ला भं
धा न्तः णा नु रू पम्
नि यो यि ष्य न्वि यो ये तं
पः मा धौ मु नि रि त्यु वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.