योगं च तं योग्यतमाय तस्मै
तपःप्रभावाद्विततार सद्यः ।
येनास्य तत्त्वेषु कृतेऽवभासे
समुन्मिमीलेव चिराय चक्षुः ॥

सारांश AI मुनि ने वह श्रेष्ठ योग सुपात्र अर्जुन को प्रदान किया, जिससे अर्जुन को सत्य का बोध हुआ और उनकी ज्ञानरूपी आँखें सदैव के लिए खुल गईं।
घण्टापथव्याख्या (मल्लिनाथः) योगं चेति ॥ योग्यतमायार्हतमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं योगं ध्यानविधिं च । योगः संनहनोपायध्यानसंगतियुक्तिषु इत्यमरः (अमरकोशः ३.३.२८ ) । तपःप्रभावात्सद्यो विततार ददौ । चिरकालग्राह्यमपीति भावः । येन योगेन तत्त्वेषु प्रकृतिमहदादिषु । तथा च । मूलप्रकृतिर्महानहंकारो मनश्च पञ्च तन्मात्राणि पञ्च बुद्धीन्द्रियाणि पश्च कर्मेन्द्रियाणि पञ्च महाभूतानीति चतुर्विंशति तत्त्वानि । तत्रावभासे साक्षात्कारे कृते सत्यस्यार्जुनस्य चक्षुरक्षि चिराय समुन्मिमीलेवोन्मिषितमिवेत्युत्प्रेक्षा। तदा तस्य कोऽपि महानखिलाज्ञानभञ्जनस्तत्त्वावभासश्चिरादन्धस्य दृष्टिलाभ इवाभवदिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
यो गं तं यो ग्य मा स्मै
पः प्र भा वा द्वि ता द्यः
ये ना स्य त्त्वे षु कृ ते ऽव भा से
मु न्मि मी ले चि रा क्षुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.