इत्युक्तवन्तं व्रज साधयेति
प्रमाणयन्वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद
वसन्निवान्ते विनयेन जिष्णुः ॥

सारांश AI युधिष्ठिर की आज्ञा पाकर, अर्जुन ने महर्षि व्यास के वचनों को शिरोधार्य किया और अत्यंत विनय के साथ प्रसन्नचित्त मुनि के समीप गए।
घण्टापथव्याख्या (मल्लिनाथः) इतीति ॥ इत्युक्तवन्तं प्रसेदिवांसं प्रसन्नम् । भाषायां सदवसश्रुवः (अष्टाध्यायी ३.२.१०८ ) इति क्वसुः। तं मुनि जिष्णुर्जयनशीलोऽर्जुनः । ग्लाजिस्थश्च- (अष्टाध्यायी ३.२.१३९ ) इति ग्स्नुप्रत्ययः । ब्रज साधयानुतिष्ठेत्येवंरूपम् । अजातशत्रोधर्मराजस्य । स्वयमविद्वेषणशीलत्वादियं संज्ञा । वाक्यं प्रमाणयन् । तदादिष्टः सन्नित्यर्थः । अन्ते वसंश्छात्र इव । छात्रान्तेवासिनौ शिष्ये इत्यमरः (अमरकोशः २.७.१३ ) । विनयेनानौद्धत्येनोपाससाद समीपं प्राप ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्यु क्त न्तं व्र सा ये ति
प्र मा न्वा क्य जा त्रोः
प्र से दि वां सं मु पा सा
न्नि वा न्ते वि ये जि ष्णुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.