महत्त्वयोगाय महामहिम्ना-
माराधनीं तां नृप देवतानाम् ।
दातुं प्रदानोचित भूरिधाम्नी-
मुपागतः सिद्धिमिवास्मि विद्याम् ॥

सारांश AI हे राजन, ऐश्वर्य की वृद्धि के लिए और देवताओं की आराधना हेतु, मैं आपको यह तेजपुंज 'सिद्धि' के समान विद्या प्रदान करने आया हूँ।
घण्टापथव्याख्या (मल्लिनाथः) महत्त्वेति ॥ हे नृप, महत्त्वयोगाय प्रकर्षलाभाय महामहिम्नां महानुभावानां देवतानामिन्द्रादीनाम्। आराध्यतेऽनयेत्याराधनी ताम् । प्रसादयित्रीमित्यर्थः । करणे ल्युट् । ङीप् । भूरिधाम्नीं महाप्रभावाम् । धाम देशे गृहे रश्मौ स्थाने जन्मप्रभावयोः इति विश्वः । अन उपधालोपिनोऽन्यतरस्याम् इति वा ङीप् । विद्यामिन्द्रमन्त्ररूपां सिद्धिं साक्षात्कार्यसिद्धिमिवेति विद्याया अमोघत्वोक्तिः। हे प्रदानोचित दानपात्रभूत । फलभोक्तृत्वादस्य पात्रत्वोक्तिः। दातुमुपागतोऽस्मि ॥ इत्युक्तवन्तं ब्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः । प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्त्व यो गा हा हि म्ना
मा रा नीं तां नृ दे ता नाम्
दा तुं प्र दा नो चि भू रि धा म्नी
मु पा तः सि द्धि मि वा स्मि वि द्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.