यया समासादितसाधनेन
सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्य-
मुन्मीलितारः कपिकेतनेन ॥

सारांश AI इस विद्या के माध्यम से कठिन तपस्या करके अर्जुन वह अजेय शक्ति प्राप्त करेंगे, जिससे वे शत्रुओं का समूल नाश करने में सक्षम होंगे।
घण्टापथव्याख्या (मल्लिनाथः) ययेति ॥ यया विद्यया करणेन सुदुश्चरामतिदुष्करां तपस्यां तपश्चर्याम् । कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (अष्टाध्यायी ३.१.१५ ) इति क्यङ् । अ प्रत्ययात् (अष्टाध्यायी ३.३.१०२ ) इति स्त्रियामप्रत्ययः। आचरता । पशुपतिं प्रति तपः कुर्वतेत्यर्थः । अतएव समासादितं प्राप्तं साधनं पाशुपतास्त्ररूपं येन तेन । कपिर्हनुमान्केतनं चिह्नं यस्य तेन । अर्जुनेनेत्यर्थः । दुरापमन्यस्य दुर्लभं वीर्यं तेजः समवाप्य । एते पूर्वोक्ता भीष्मादय उन्मूलितार उन्मूलयिष्यन्ते । उन्मूलयतेर्ण्यन्तात्कर्मणि लुट् । अत्र चिण्वदिडागमेऽपि तस्य असिद्धवदत्राभात् (अष्टाध्यायी ६.४.२२ ) इत्यसिद्धत्वात् णेरनिटि (अष्टाध्यायी ६.४.५१ ) इति णिलोपः । तन्निमित्तस्यैव अर्निटि' इति निषेधात् । उक्तं च-'चिण्वद्वृद्धिर्युक्च हन्तेश्च धत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ॥' इति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
या मा सा दि सा ने
सु दु श्च रा मा ता स्याम्
ते दु रा पं वा प्य वी र्य
मु न्मी लि ता रः पि के ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.