Loading data... On slow networks this could take a few minutes.
100%

निरीक्ष्य संरम्भनिरस्तधैर्यं
राधेयमाराधितजामदग्न्यम् ।
असंस्तुतेषु प्रसभं भयेषु
जायेत मृत्योरपि पक्षपातः ॥

सारांश AI परशुराम द्वारा शिक्षित और क्रोध से भरे हुए कर्ण को देखकर तो स्वयं यमराज को भी डर लग सकता है।
घण्टापथव्याख्या (मल्लिनाथः) निरीक्ष्येति ॥ संरम्भेण कोपेण निरस्तं त्याजितं धैर्यं निर्विकारचित्तत्वं येन तं तथोक्तत्म्। आटोपेनैव परधैर्यापहारिणमित्यर्थः । आराधितजामदग्र्यं शुश्रूषितभार्गवम् । जामदग्र्यादधिगतास्वरहस्यमित्यर्थः। राधेयं राधासुतंकर्णम् । स्त्रीभ्यो ढक् (अष्टाध्यायी ४.१.१२० ) । निरीक्ष्य मृत्योरप्यसंस्तुतेष्वपरिचितेषु । संस्तवः स्यात्परिचयः इत्यमरः (अमरकोशः ३.२.२३ ) । भयेषु प्रसभं पक्ष पातः परिचयो जायेत । मृत्युरप्यस्माद्विभीयात्किमुतान्य इति भावः। संभावनायां लिङ्। अत्र जनिक्रियापेक्षया समानकर्तृकत्त्वाभावेऽपि पक्षपातक्रियापेक्षया तत्संभवान्निरीक्ष्येति ल्यब्निर्देशः। समर्थनीयः प्रधानोपसर्जनभावस्त्वप्रयोजकः इति व्यक्तिविवेककारः । अत्र भयसंबन्धरहितस्य मृत्योर्भयसंबन्धाभिधानादसंबन्धे संबन्धरूपातिशयोक्तिरलंकारः॥ अथानन्तरं करणीयमागमनप्रयोजनं च युग्मेनाह
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
नि री क्ष्य सं म्भ नि स्त धै र्यं
रा धे मा रा धि जा ग्न्यम्
सं स्तु ते षु प्र भं ये षु
जा ये मृ त्यो पि क्ष पा तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.