Loading data... On slow networks this could take a few minutes.
100%

प्रसादलक्ष्मीं दधतं समग्रां
वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्त-
मसंस्तुतानामपि भावमार्द्रम् ॥

अन्वयः AI जन-अतिगेन वपुः-प्रकर्षेण समग्राम् प्रसादलक्ष्मीं दधतम्, असंस्तुतानाम् अपि चेतःसु प्रसह्य आर्द्रं भावं समासजन्तम् (मुनिम् आबभाषे) ।
English Summary AI (He addressed the sage) who, by the excellence of his form that surpassed ordinary men, possessed the full grace of serenity; and who compellingly implanted a tender feeling even in the minds of strangers.
सारांश AI वे मुनि पूर्ण प्रसन्नता और अलौकिक शारीरिक कान्ति से युक्त थे, जो अपरिचित व्यक्तियों के हृदय में भी बलपूर्वक अत्यन्त कोमल और आत्मीय भाव उत्पन्न कर रहे थे।
घण्टापथव्याख्या (मल्लिनाथः) प्रसादेति ॥ पुनः समग्रां संपूर्णी प्रसादः सौम्यता तस्य लक्ष्मीं संपदं दधतम् । अतएव जनमतिगच्छतीति जनातिगेन लोकातिशायिना । अन्येष्वपि दृश्यते (अष्टाध्यायी ३.२.१०१ ) इति डप्रत्ययः । वपुःप्रकर्षेणाकारसंपदासंस्तुतानामपरिचितानामपि । व्यासोऽयमित्यजानतामपीत्यर्थः । संस्तवः स्यात्परिचयः इत्यमरः (अमरकोशः ३.२.२३ ) । चेतःसु चित्तेष्वार्द्रं, स्नेहार्द्रं, भावमभिप्रायं प्रसह्य बलात्समासजन्तम् । लगयन्तमिति यावत् । देशसञ्जस्वञ्जां शपि इत्युपधाया लोपः । प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः॥
पदच्छेदः AI
प्रसादलक्ष्मींप्रसादलक्ष्मी (२.१) the grace of serenity
दधतम्दधत् (√धा+शतृ, २.१) holding
समग्राम्समग्र (२.१) entire
वपुःप्रकर्षेणवपुस्प्रकर्ष (३.१) by the excellence of his body
जनातिगेनजनअतिग (३.१) surpassing ordinary people
प्रसह्यप्रसह्य (प्र√सह्+ल्यप्) compellingly
चेतःसुचेतस् (७.३) in the minds
समासजन्तम्समासजत् (सम्+आ√सञ्ज्+शतृ, २.१) implanting
असंस्तुतानाम्असंस्तुत (नञ्+सम्√स्तु+क्त, ६.३) of even those unacquainted
अपिअपि even
भावम्भाव (२.१) a feeling
आर्द्रम्आर्द्र (२.१) tender
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
प्र सा क्ष्मीं तं ग्रां
पुः प्र र्षे ना ति गे
प्र ह्य चे तः सु मा न्त
सं स्तु ता ना पि भा मा र्द्रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.