यस्मिन्ननैश्वर्यकृतव्यलीकः
पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन्धनुः कस्य रणे न कुर्या-
न्मनो भयैकप्रवणं स भीष्मः ॥

अन्वयः AI यस्मिन् अन्तकः अपि अनैश्वर्य-कृत-व्यलीकः (सन्) पराभवं प्राप्तः इव (आसीत्), सः भीष्मः रणे धनुः धुन्वन् कस्य मनः भय-एक-प्रवणं न कुर्यात्?
English Summary AI Against whom even Yama, the god of death, seemed to have suffered defeat, being displeased by his own lack of power—whose mind would that Bhishma not fill with fear when brandishing his bow in battle?
सारांश AI युद्धभूमि में धनुष चलाते हुए साक्षात् यमराज के समान भीष्म पितामह किसके मन में भय उत्पन्न नहीं कर देंगे? उनके सामने तो काल भी स्वयं को शक्तिहीन अनुभव करता है।
घण्टापथव्याख्या (मल्लिनाथः) यस्मिन्निति ॥ यस्मिन्भीष्मे विषये । अनीश्वरस्य भावोऽनैश्वर्यमसामर्थ्यम् ।नञ: शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः । तेन कृतव्यलीको जनितवैलक्ष्यः। दुःखे वैलक्ष्ये व्यलीकम् इति यादवः । अन्तकोऽपि यमोऽपि पराभवं प्राप्त इव । भीष्मस्येच्छामरणत्वादन्तकोऽपि पराजित इवास्ते, किमुतान्य इति भाषः । स भीष्मो रणे धनुर्धुन्वन्कम्पयन्कस्य मनो भयैकप्रवणं भय एकप्रवणमेकोन्मुखम् । शिवभागवतवत्समासः। न कुर्यात् । सर्वस्यापि मनसि भयं कुर्यादेवेत्यर्थः॥
पदच्छेदः AI
यस्मिन्यद् (७.१) Against whom
अनैश्वर्यकृतव्यलीकःनञ्ऐश्वर्यकृतव्यलीक (१.१) displeased by his lack of power
पराभवंपराभव (२.१) defeat
प्राप्तःप्राप्त (प्र√आप्+क्त, १.१) having obtained
इवइव as if
अन्तकोऽपिअन्तक (१.१)अपि even Yama
धुन्वन्धुन्वत् (√धू+शतृ, १.१) brandishing
धनुःधनुस् (२.१) the bow
कस्यकिम् (६.१) whose
रणेरण (७.१) in battle
not
कुर्यात्कुर्यात् (√कृ कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would make
मनःमनस् (२.१) mind
भयैकप्रवणंभयएकप्रवण (२.१) solely inclined to fear
सःतद् (१.१) that
भीष्मःभीष्म (१.१) Bhishma
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्मि न्न नै श्व र्य कृ व्य ली कः
रा वं प्रा प्त वा न्त को ऽपि
धु न्व न्ध नुः स्य णे कु र्या
न्म नो यै प्र णं भी ष्मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.