त्रिःसप्तकृत्वो जगतीपतीनां
हन्ता गुरुर्यस्य स जामदग्न्यः ।
वीर्यावधूतः स्म तदा विवेद
प्रकर्षमाधारवशं गुणानाम् ॥

अन्वयः AI यस्य गुरुः त्रिःसप्तकृत्वः जगतीपतीनां हन्ता सः जामदग्न्यः, (सः अपि) तदा वीर्य-अवधूतः (सन्) गुणानां प्रकर्षम् आधार-वशं विवेद स्म ।
English Summary AI Even Parashurama, the slayer of kings twenty-one times, who was the preceptor of Bhishma, realized back then, when defeated by Bhishma's valor, that the excellence of qualities depends on the person who possesses them.
सारांश AI क्षत्रियों का इक्कीस बार संहार करने वाले परशुराम को भी, जब श्री राम ने पराजित किया, तब यह बोध हुआ कि गुणों का प्रभाव उनके आधारभूत पराक्रम पर ही आश्रित होता है।
घण्टापथव्याख्या (मल्लिनाथः) त्रिसप्तेति ॥ त्रिरावृत्तान्सप्तवारांस्त्रिःसप्तकृत्वः। एकविंशविकृत्व इत्यर्थः। त्रिःसप्तशब्दयोः सुप्सुपेतिसमासः। संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (अष्टाध्यायी ५.४.१७ ) इति कृत्वसुच्प्रत्ययः। जगतीपतीनां महीपतीनां हन्ता नाशको गुरुरस्त्रवेदोपदेष्टा सः। प्रसिद्ध इत्यर्थः । अत एव यच्छब्दानपेक्षत्वम् । तदुक्तं काव्यप्रकाशे-प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते इति । जमदग्नेरपत्यं पुमाञ्जामदग्न्य:। गर्गादिभ्यो यञ् (अष्टाध्यायी ४.१.१०५ ) इति यञ्प्रत्ययः । यस्य भीष्मस्य वीर्यावधूतो विक्रमाभिभूतः । अम्बिकास्वयंवर इत्यर्थः । तदा अङ्गप्राप्तिसमये गुणानां शौर्यादीनां प्रकर्षमतिशयमाधारवशमाश्रयाधीनं विवेद जज्ञे स्म । स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मादपि प्रकर्षाधानदर्शनादिति भावः । स्म पादपूरणे भूतेऽर्थे च इति विश्वः ॥
पदच्छेदः AI
त्रिःसप्तकृत्वःत्रिःसप्तकृत्वः twenty-one times
जगतीपतीनांजगतीपति (६.३) of the kings
हन्ताहन्तृ (√हन्+तृच्, १.१) the slayer
गुरुःगुरु (१.१) the preceptor
यस्ययद् (६.१) whose
सःतद् (१.१) that
जामदग्न्यःजामदग्न्य (१.१) Parashurama
वीर्यावधूतःवीर्यअवधूत (१.१) defeated by valor
स्मस्म (indicates past tense)
तदातदा then
विवेदविवेद (√विद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) realized
प्रकर्षम्प्रकर्ष (२.१) excellence
आधारवशंआधारवश (२.१) dependent on the possessor
गुणानाम्गुण (६.३) of qualities
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्रिः प्त कृ त्वो ती ती नां
न्ता गु रु र्य स्य जा ग्न्यः
वी र्या धू तः स्म दा वि वे
प्र र्ष मा धा शं गु णा नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.