Loading data... On slow networks this could take a few minutes.
100%

लभ्या धरित्री तव विक्रमेण
ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः
प्रकर्षतन्त्रा हि रणे जयश्रीः ॥

अन्वयः AI धरित्री तव विक्रमेण लभ्या, विपक्षः च वीर्य-अस्त्र-बलैः ज्यायान् । अतः प्रकर्षाय विधिः विधेयः । हि रणे जय-श्रीः प्रकर्ष-तन्त्रा (भवति) ।
English Summary AI The earth is attainable by your prowess, but the enemy is superior in valor, missiles, and forces. Therefore, a method for attaining superiority must be employed, for indeed, the goddess of victory in battle depends on excellence.
सारांश AI पृथ्वी आपके पराक्रम से ही प्राप्त होने योग्य है, किन्तु आपका शत्रु शस्त्रबल में श्रेष्ठ है। अतः आपको विजय के लिए विशेष प्रयत्न करना चाहिए, क्योंकि युद्ध में विजय शक्ति के उत्कर्ष पर निर्भर है।
घण्टापथव्याख्या (मल्लिनाथः) लभ्येति ॥ तव । त्वयेत्यर्थः। कृत्यानां कर्तरि वा (अष्टाध्यायी २.३.७१ ) इति षष्ठी। धरित्री विक्रमेण लभ्या प्राप्तव्या। न च सुलभ्या तं विनेत्योह-विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेयादीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्थतरः। अधिकतर इति यावत् । ज्येष्ठस्य । ज्यादादीयसः (अष्टाध्यायी ६.४.१६० ) इति स्यादेशः। अतः प्रकर्षायाधिक्याय विधिरुपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षायत्तेत्यर्थः । तन्त्रं प्रधाने सिद्धान्ते इत्यमरः (अमरकोशः ३.३.१९३ ) । बलिन एव जयः, न तु दुर्बलस्येति भावः॥ अथ "त्रि:-' इत्यादिना श्लोकचतुष्टयेन विपक्षज्यायस्त्वं वर्णयतित्रिसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः। वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम्
पदच्छेदः AI
लभ्यालभ्य (√लभ्+यत्, १.१) is attainable
धरित्रीधरित्री (१.१) the earth
तवयुष्मद् (६.१) your
विक्रमेणविक्रम (३.१) by prowess
ज्यायान्ज्यायस् (१.१) is stronger
and
वीर्यास्त्रबलैःवीर्यअस्त्रबल (३.३) in valor, missiles, and forces
विपक्षःविपक्ष (१.१) the enemy
अतःअतः Therefore
प्रकर्षायप्रकर्ष (४.१) for attaining superiority
विधिःविधि (१.१) a means
विधेयःविधेय (वि√धा+यत्, १.१) should be employed
प्रकर्षतन्त्राप्रकर्षतन्त्र (१.१) dependent on excellence
हिहि for indeed
रणेरण (७.१) in battle
जयश्रीःजयश्री (१.१) the goddess of victory
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
भ्या रि त्री वि क्र मे
ज्या यां श्च वी र्या स्त्र लै र्वि क्षः
तः प्र र्षा वि धि र्वि धे यः
प्र र्ष न्त्रा हि णे श्रीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.