पथश्च्युतायां समितौ रिपूणां
धर्म्यां दधानेन धुरं चिराय ।
त्वया विपत्स्वप्यविपत्ति रम्य-
माविष्कृतं प्रेम परं गुणेषु ॥

अन्वयः AI रिपूणां समितौ पथः च्युतायां (सत्याम्), चिराय धर्म्यां धुरं दधानेन त्वया विपत्सु अपि अविपत्ति (सती) गुणेषु परं प्रेम रम्यम् आविष्कृतम् ।
English Summary AI While the assembly of your enemies has deviated from the righteous path, you have for a long time borne the yoke of Dharma. Thus, even in calamities, your fortitude has beautifully revealed your supreme love for virtues.
सारांश AI शत्रुओं के धर्ममार्ग से विमुख होने पर भी आपने सदा धर्म का पालन किया। विपत्तियों में भी श्रेष्ठ गुणों के प्रति आपका यह अनुराग अत्यन्त प्रशंसनीय और सुन्दर है।
घण्टापथव्याख्या (मल्लिनाथः) पथ इति ॥ रिपूणां समितौ सभायाम्। सभासमितिसंसदः इत्यमरः (अमरकोशः २.७.१७ ) । पथश्च्युतायां मार्गाद्भ्रष्टायाम् । दुरात्मनो दुःशासनस्य स्त्रीग्रहणसाहसमङ्गीकृतवत्यामित्यर्थः। चिराय धर्म्यां धर्मादनपेताम् । धर्मपथ्यर्थन्यायादनपेते (अष्टाध्यायी ४.४.९२ ) इति यत्प्रत्ययः । धुरं भारं दधानेन । कृच्छ्रेष्वपि धर्मादचलतेत्यर्थः । त्वया विपत्स्वपि । अविपत्त्यविनाश्यत एव रम्यं गुणेषु शान्त्यादिषु विषये परमुत्कृष्टं प्रेमाविष्कृतं प्रकटीकृतम् । दुःसहमपि सोढवता त्वया साधु कृतमिति भावः ॥ विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते
पदच्छेदः AI
पथःपथिन् (५.१) from the path
च्युतायाम्च्युत (√च्यु+क्त, ७.१) having deviated
समितौसमिति (७.१) the assembly
रिपूणाम्रिपु (६.३) of the enemies
धर्म्याम्धर्म्य (२.१) righteous
दधानेनदधान (√धा+शानच्, ३.१) by you who are bearing
धुरम्धुर् (२.१) the yoke
चिरायचिराय for a long time
त्वयायुष्मद् (३.१) by you
विपत्सुविपद् (७.३) in calamities
अपिअपि even
अविपत्तिनञ्विपत्ति (१.१) fortitude
रम्यम्रम्य beautifully
आविष्कृतंआविष्कृत (आविस्√कृ+क्त, १.१) has been revealed
प्रेमप्रेमन् (१.१) love
परंपर (१.१) supreme
गुणेषुगुण (७.३) for virtues
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
श्च्यु ता यां मि तौ रि पू णां
र्म्यां धा ने धु रं चि रा
त्व या वि त्स्व प्य वि त्ति म्य
मा वि ष्कृ तं प्रे रं गु णे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.