Loading data... On slow networks this could take a few minutes.
100%

अचिरेण परस्य भूयसीं
विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती
कुरुते तत्प्रतिकारमन्यथा ॥

अन्वयः AI कृती परस्य भूयसीं (वृद्धिम्) च आत्मनः विपरीतां (हानिम्) विगणय्य क्षययुक्तिम् अचिरेण न उपेक्षते, (अपितु) तत्प्रतिकारं कुरुते ।
English Summary AI A wise person, considering the enemy's great prosperity and his own decline, does not neglect the cause of his ruin. On the contrary, he acts swiftly to remedy it.
सारांश AI बुद्धिमान व्यक्ति यदि अपनी हानि और शत्रु की वृद्धि को निकट भविष्य में विपरीत होते देखता है, तभी वह वर्तमान क्षय की उपेक्षा करता है, अन्यथा वह तुरंत प्रतिकार करता है।
घण्टापथव्याख्या (मल्लिनाथः) अचिरेणेति ॥ कृतमनेनेति कृती । कुशल इत्यर्थः। इष्टादिभ्यश्च (अष्टाध्यायी ५.२.८८ ) इतीनिप्रत्ययः । परस्य शत्रोः क्षययुक्तिं क्षययोगमचिरेणाशुभाविनीं भूयसीम् दुरन्तां च, तथात्मनः क्षययुक्तिं विपरीतां चिरभाविनीमल्पीयसीं च विगणय्य विचार्य । ल्यपि लघुपूर्वात् (अष्टाध्यायी ६.४.५६ ) इत्ययादेशः । उपेक्षते । अन्यथोक्तवैपरीत्ये । परस्य क्षययुक्तावल्पीयस्याम्, स्वस्य भूयस्यां च सत्यामित्यर्थः । तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतिकारमचिरेणाशु कुरुते । एवं सति यदा शत्रेरभ्युदयः स्वस्य चातिपरिक्षयो यथास्माकं तदा किं वक्तव्यम् । सद्यः । प्रतिकुरुत इत्यर्थात्सिद्धमनुसंधेयम् ॥ तथाप्युपेक्षायामनिष्टमाचष्टे
पदच्छेदः AI
अचिरेणअचिर (३.१) without delay
परस्यपर (६.१) of the enemy
भूयसीम्भूयस् (२.१) greater (prosperity)
विपरीताम्विपरीत (२.१) the opposite (decline)
विगणय्यविगणय्य (वि√गण्+ल्यप्) having considered
and
आत्मनःआत्मन् (६.१) of oneself
क्षययुक्तिम्क्षययुक्ति (२.१) the cause of decline
उपेक्षतेउपेक्षते (उप√ईक्ष् कर्तरि लट् (आत्मने.) प्र.पु. एक.) neglects
कृतीकृतिन् (१.१) a wise person
कुरुतेकुरुते (√कृ कर्तरि लट् (आत्मने.) प्र.पु. एक.) does
तत्प्रतिकारम्तद्प्रतिकार (२.१) its remedy
अन्यथाअन्यथा on the contrary
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
चि रे स्य भू सीं
वि री तां वि य्य चा त्म नः
क्ष यु क्ति मु पे क्ष ते कृ ती
कु रु ते त्प्र ति का न्य था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.