विधुरं किमतः परं परै-
रवगीतां गमिते दशामिमाम् ।
अवसीदति यत्सुरैरपि
त्वयि सम्भावितवृत्ति पौरुषम् ॥

अन्वयः AI परैः इमाम् अवगीतां दशाम् गमिते (सति), अतः परं विधुरं किम्? यत् त्वयि सुरैः अपि सम्भावितवृत्ति पौरुषम् अवसीदति।
English Summary AI What can be more distressing than this? Having been reduced to this disgraceful state by your enemies, the very valor in you, which was once honored even by the gods, now languishes.
सारांश AI शत्रुओं द्वारा इस अपमानजनक स्थिति में पहुँचाए जाने से अधिक कष्टकारी और क्या होगा कि देवताओं द्वारा सम्मानित आपका पुरुषार्थ आज क्षीण हो रहा है।
घण्टापथव्याख्या (मल्लिनाथः) विधुरमिति ॥ त्वयि परैः शत्रुभिरिमामीदृशीमवगीतां गर्हिताम् । अवगीतं तु निर्वादे मुहुर्दृष्टे च गर्हिते इति विश्वः । दशां गमिते प्रापिते सति । सुरैरपि संभावितवृत्ति बहुकृतप्रसारम् । अथवा निश्चितसद्भावम् । पौरुषं पुरुषकारः । युवादित्वादण्प्रत्ययः । अवसीदति नश्यतीति यत् । अतःपरं अतोऽन्यदधिकं किं विधुरं किं कष्टम् । न किंचिदित्यर्थः । विधुरं प्रत्यवाये स्यात्कष्टविश्लेषयोरपि इति वैजयन्ती । अस्तीति शेषः। अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति इति भाष्यकारः। भवन्तीति लटः पूर्वाचार्याणां संज्ञा । यद्वा पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता । तदुपरि महत्कष्टं तच्च त्वदुपेक्षयेत्युपालभ्यस इत्यर्थः ॥ अथापेक्षाकालत्वादियमुपेक्षेत्याशङ्क्य नायमुपेक्षाकाल इति वक्तुं तदेव तावच्छ्लोकद्वयेन विविनक्ति
पदच्छेदः AI
विधुरम्विधुर (१.१) distressing
किम्किम् (१.१) what
अतःअतः than this
परम्परम् more
परैःपर (३.३) by enemies
अवगीताम्अवगीत (अव√गै+क्त, २.१) disgraceful
गमितेगमित (√गम्+णिच्+क्त, ७.१) having been brought to
दशाम्दशा (२.१) state
इमाम्इदम् (२.१) this
अवसीदतिअवसीदति (अव√सद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) languishes
यत्यत् that
सुरैःसुर (३.३) by the gods
अपिअपि even
त्वयियुष्मद् (७.१) in you
सम्भावितवृत्तिसम्भावित (सम्√भू+णिच्+क्त)वृत्ति (१.१) whose existence was honored
पौरुषम्पौरुष (१.१) valor
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि धु रं कि तः रं रै
गी तां मि ते शा मि माम्
सी ति त्सु रै पि
त्व यि म्भा वि वृ त्ति पौ रु षम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.