चतसृष्वपि ते विवेकिनी
नृप विद्यासु निरूढिमागता ।
कथमेत्य मतिर्विपर्ययं
करिणी पङ्कमिवावसीदति ॥

अन्वयः AI हे नृप, ते विवेकिनी मतिः चतसृषु अपि विद्यासु निरूढिम् आगता । (सा) कथं विपर्ययम् एत्य पङ्कम् करिणी इव अवसीदति?
English Summary AI O king, your discerning intellect, which has attained mastery in all four sciences, how has it now reached a state of confusion and sinks, like a female elephant stuck in mud?
सारांश AI हे राजन! चारों विद्याओं में पारंगत आपकी विवेकी बुद्धि आज विपरीत दिशा में जाकर मोहग्रस्त कैसे हो रही है, जैसे कोई हथिनी कीचड़ में धंस जाती है?
घण्टापथव्याख्या (मल्लिनाथः) चतसृष्विति ॥ हे नृप, चतसृष्वपि विद्यास्वान्वीक्षिक्यादिषु ।आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चैताश्चतस्रस्तु लोकसंस्थितिहेतवः ॥ इति कामन्दक: निरूढिमागता प्रसिद्धिं गता। अतएव विवेकिनी सदसद्विवेकवती । यथाह मनुः—‘आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥ इति । ते मतिः कथं करिणी पङ्कमिव विपर्ययं वैपरीत्यमविवेकरूपमेत्यावसीदति नश्यति । तन्न युक्तमिति भावः ॥ किं नश्छिन्नमिदानीं येनेत्थमुपालभ्येमहीत्यत्राह—विधुरं किमतःपरं परैरवगीतां गमिते दशामिमाम् । अवसीदति यत्सुरैरपि त्वयि संभावितवृत्ति पौरुषम्
पदच्छेदः AI
चतसृषुचतुर् (७.३) in the four
अपिअपि even
तेयुष्मद् (६.१) your
विवेकिनीविवेकिन् (१.१) discerning
नृपनृप (८.१) O king
विद्यासुविद्या (७.३) in the sciences
निरूढिम्निरूढि (२.१) mastery
आगताआगत (आ√गम्+क्त, १.१) has attained
कथम्कथम् how
एत्यएत्य (आ√इ+ल्यप्) having reached
मतिःमति (१.१) intellect
विपर्ययम्विपर्यय (२.१) confusion
करिणीकरिन् (१.१) a female elephant
पङ्कम्पङ्क (२.१) mud
इवइव like
अवसीदतिअवसीदति (अव√सद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) sinks
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
सृ ष्व पि ते वि वे कि नी
नृ वि द्या सु नि रू ढि मा ता
मे त्य ति र्वि र्य यं
रि णी ङ्क मि वा सी ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.