इयमिष्टगुणाय रोचतां
रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा
गुणगृह्या वचने विपश्चितः ॥

अन्वयः AI (हे नृप) इयम् रुचिरार्था भारती इष्टगुणाय भवते अपि रोचताम् । ननु विपश्चितः वक्तृविशेषनिःस्पृहाः (सन्तः) वचने गुणगृह्याः (भवन्ति) ।
English Summary AI May this speech, with its charming meaning, be pleasing to you who possess desired qualities. Indeed, the wise are indifferent to the speaker and grasp only the merit in the words.
सारांश AI सुंदर अर्थों वाली मेरी यह वाणी आपको प्रिय लगे। विद्वान लोग वक्ता के प्रति मोह न रखकर केवल वचनों के गुणों को ही ग्रहण करते हैं।
घण्टापथव्याख्या (मल्लिनाथः) इयामिति ॥ रुचिरार्था महितार्थसंपन्नोति रुचिहेतूक्तिः । इयं भारती द्रौपदीवाक्यमिष्टगुणाय । गुणग्राहिण इत्यर्थः । भवते तुभ्यमपि । रुच्यर्थानां प्रीयमाणः (अष्टाध्यायी १.४.३३ ) इति संप्रदानत्वाच्चतुर्थी । रोचतां स्वदताम् । विध्यर्थे लोट् । हितवचने बलादपीच्छां कुर्यादौषधवदिति भावः । तथापि स्रैणे वचसि का श्रद्धा तत्राह—नन्विति । गुणानां गृह्या गुणगृह्याः । गुणपक्षपातिन इत्यर्थः । पदास्वैरिबाह्यापक्ष्येषु च (अष्टाध्यायी ३.१.११९ ) इति ग्रहेः क्यप् । विपश्चितो विद्वांसः ।विद्वान्विपश्चिद्दोषज्ञः इत्यमरः (अमरकोशः २.७.५ ) । वचने विषये वक्तृविशेषे स्त्रीपुंसादिलक्षणे निःस्पृहा ननु निरास्थाः खलु। बालादपि सुभाषितं ग्राह्यम् इति न्यायादिति भावः ॥ संप्रति स्वयमुपालभते चतसृष्वर्पिते विवेकिनी नृप विद्यासु निरूढिमागता । कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति
पदच्छेदः AI
इयम्इदम् (१.१) this
इष्टगुणायइष्ट (√इष्+क्त)गुण (४.१) for one with desired qualities
रोचताम्रोचताम् (√रुच् कर्तरि लोट् (आत्मने.) प्र.पु. एक.) may it be pleasing
रुचिरार्थारुचिरअर्थ (१.१) having charming meaning
भवतेभवत् (४.१) to you
अपिअपि also
भारतीभारती (१.१) speech
ननुननु indeed
वक्तृविशेषनिःस्पृहाःवक्तृविशेषनिःस्पृह (१.३) indifferent to the particular speaker
गुणगृह्याःगुणगृह्य (√ग्रह्+ण्यत्, १.३) those who grasp the merit
वचनेवचन (७.१) in speech
विपश्चितःविपश्चित् (१.३) the wise
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
मि ष्ट गु णा रो तां
रु चि रा र्था ते ऽपि भा ती
नु क्तृ वि शे निः स्पृ हा
गु गृ ह्या ने वि श्चि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.