अथोच्चकैरासनतः परार्ध्या-
दुद्यन्स धूतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः
शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥

अन्वयः AI अथ सः परार्ध्यात् आसनतः उच्चकैः उद्यन्, धूतारुणवल्कलाग्रः, कीर्णाकपिशांशुजालः (सन्) सुमेरोः शृङ्गात् उद्यन् तिग्मरश्मिः इव रराज ।
English Summary AI Then, rising high from his excellent seat, he (Yudhishthira), with the edge of his reddish bark garment fluttering and scattering a net of tawny rays from his body, shone like the sun rising from a peak of Mount Sumeru.
सारांश AI अपने ऊँचे आसन से उठते हुए और लाल वस्त्र धारण किए हुए राजा युधिष्ठिर सुमेरु पर्वत के शिखर पर चमकते हुए सूर्य के समान तेजस्वी दिखाई दिए।
घण्टापथव्याख्या (मल्लिनाथः) अथेति ॥ अथ दर्शनानन्तरम् । उच्चकैरुन्नतात्परार्ध्याच्छ्रेष्ठात् । अर्धाद्यत् (अष्टाध्यायी ४.३.४ ) परावराधमोत्तमपूर्वाच्च (अष्टाध्यायी ४.३.५ ) इति यत्प्रत्ययः । आसनतः सिंहासनादुद्यन्नुत्तिष्ठन्नत एव धूतानि कम्पितान्यरुणानि वल्कलाग्राणि यस्य स तथोक्तः। स नृपः कीर्णं विस्तृतमाकपिशमंशुजालं यस्य स तथोक्तः । सुमेरोः शृङ्गादुद्यंस्तिग्मरश्मिरिव । रराज ॥ अवहितहृदयो विधाय सोऽर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः
पदच्छेदः AI
अथअथ Then
उच्चकैःउच्चकैः high
आसनतःआसन (५.१) from the seat
परार्ध्यात्परार्ध्य (५.१) from the excellent
उद्यन्उद्यत् (उद्√इ+शतृ, १.१) rising
सःतद् (१.१) he
धूतारुणवल्कलाग्रःधूतअरुणवल्कलअग्र (१.१) whose reddish bark-garment's edge was shaken
रराजरराज (√राज् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) shone
कीर्णाकपिशांशुजालःकीर्णकपिशअंशुजाल (१.१) he whose network of tawny rays was scattered
शृङ्गात्शृङ्ग (५.१) from the peak
सुमेरोःसुमेरु (६.१) of Mount Sumeru
इवइव like
तिग्मरश्मिःतिग्मरश्मि (१.१) the sun
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
थो च्च कै रा तः रा र्ध्या
दु द्य न्स धू ता रु ल्क ला ग्रः
रा की र्णा पि शां शु जा लः
शृ ङ्गा त्सु मे रो रि ति ग्म श्मिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.