Loading data... On slow networks this could take a few minutes.
100%

उपजापसहान्विलङ्घय-
न्स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां
किमु लोकाधिकधाम राजकम् ॥

अन्वयः AI मद-उद्धतः सः उपजाप-सहान् नृपतीन् विलङ्घयन् विधाता । जनः अपि अधः-क्रियाम् न सहते, लोक-अधिक-धाम राजकम् किम् उ (सहेत)?
English Summary AI Arrogant with pride, he (Duryodhana) will surely alienate the kings who are currently tolerant of his instigations. Even a common person does not tolerate humiliation; how much less so a community of kings whose glory surpasses the world?
सारांश AI मदोन्मत्त दुर्योधन उन राजाओं की उपेक्षा कर रहा है जिनमें फूट डाली जा सकती है; जब साधारण लोग भी अपमान सहन नहीं करते, तब तेजस्वी राजा भला इसे कैसे सहेंगे।
घण्टापथव्याख्या (मल्लिनाथः) उपजापेति ॥ मदोद्धतः स दुर्योधनो नृपतीनन्यान्नृपान्विलङ्घ्यन्मदादमानयन् ॥ सहन्त इति सहाः। पचाद्यच् । उपजापस्य सहान्भेदयोग्यान्। समौ भेदोपजापौ इत्यमरः (अमरकोशः २.८.२१ ) । विधाता विधास्यति । दधातेर्लुट् । अवमानितो जनः सुभेद्य इति भावः । न च ते सहिष्णव इत्याह-जनः प्राकृतोऽप्यधःक्रियामपमानं न सहते । लोकाधिकधाम लोकोत्तरप्रतापं राजकं राजसमूहः । गोत्रोक्षोष्ट्र- (अष्टाध्यायी ४.२.३९ ) इत्यादिना वुञ्प्रत्ययः । किमु । न सहृत इति किं वक्तव्यमित्यर्थः । तथा सति कृत्स्नमेव राजमण्डलमस्मानेवावलम्बिष्यते इति भावः ॥ ननु सखीनिवेत्यादिवनेचरोक्त्या तस्य मदसंभावनापि कथमित्यत्राह—असमापितकृत्यसंपदां हतवेगं विनयेन तावता । प्रभवन्त्यभिमानशालिनां मदमुत्तम्भयितुं विभूतयः
पदच्छेदः AI
उपजापसहान्उपजापसह (२.३) tolerant of instigation
विलङ्घयन्विलङ्घयत् (वि√लङ्घ्+णिच्+शतृ, १.१) by insulting
सःतद् (१.१) he
विधाताविधातृ (वि√धा+तृच्, १.१) will surely alienate
नृपतीन्नृपति (२.३) the kings
मदोद्धतःमदउद्धत (१.१) arrogant with pride
सहतेसहते (√सह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) tolerates
not
जनःजन (१.१) a person
अपिअपि even
अधःक्रियाम्अधःक्रिया (२.१) humiliation
किमुकिमु how much less so
लोकाधिकधामलोकअधिकधामन् (१.१) whose glory surpasses the world
राजकम्राजक (१.१) a community of kings
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
जा हा न्वि ङ्घ
न्स वि धा ता नृ ती न्म दो द्ध तः
ते नो ऽप्य धः क्रि यां
कि मु लो का धि धा रा कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.