Loading data... On slow networks this could take a few minutes.
100%

सुहृदः सहजास्तथेतरे
मतमेषां न विलङ्घयन्ति ये ।
विनयादिव यापयन्ति ते
धृतराष्ट्रात्मजमात्मसिद्धये ॥

अन्वयः AI सहजाः सुहृदः तथा इतरे ये एषाम् मतम् न विलङ्घयन्ति, ते विनयात् इव आत्म-सिद्धये धृतराष्ट्र-आत्मजम् यापयन्ति ।
English Summary AI His kinsmen and other allies, who do not transgress his (Duryodhana's) opinion, are seemingly managing him with humility, but in reality, they are biding their time for their own success.
सारांश AI सहज मित्र और अन्य राजा, जो दुर्योधन की आज्ञा का उल्लंघन नहीं करते, वे अपनी सफलता के लिए किसी अनुशासन की भाँति उस धृतराष्ट्र पुत्र की सेवा कर रहे हैं।
घण्टापथव्याख्या (मल्लिनाथः) सुहृद इति ॥ किं चैषां वृष्णीनां ये सहजाः सहजाताः । मातृपितृपक्ष इत्यर्थ अन्येष्वपि दृश्यते (अष्टाध्यायी ३.२.१०१ ) इति डप्रत्ययः । सुहृदो मित्राणि तथेतरे कृत्रिमसुहृदश्च मतं वृष्णिपक्षं न विलङ्घयन्ति नातिक्रामन्ति । ते द्वयेऽपि नृपाः । दुर्योधनोपजीविनोऽपीति भावः । आत्मसिद्ध्यं आत्मजीवनार्थं धृतराष्ट्रात्मजं दुर्योधनं विनयादानुकूल्यादिव यापयन्ति कालं गमयन्ति।कार्यकाले तु वृष्णिपक्षप्रवेशिन एवेत्यर्थः।यातेर्ण्यन्ताल्लट्। अर्तिह्रि- इत्यादिना पुगागमः ॥ किंच नायमभियोगकाल इत्याशयेनाह
पदच्छेदः AI
सुहृदःसुहृद् (१.३) friends
सहजाःसहज (१.३) kinsmen
तथातथा and
इतरेइतर (१.३) others
मतम्मत (√मन्+क्त, २.१) the opinion
एषाम्एतद् (६.३) of these (Vrishnis)
not
विलङ्घयन्तिविलङ्घयन्ति (वि√लङ्घ् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) transgress
येयद् (१.३) who
विनयात्विनय (५.१) out of humility
इवइव as if
यापयन्तियापयन्ति (√या +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are managing/biding time with
तेतद् (१.३) they
धृतराष्ट्रात्मजम्धृतराष्ट्रआत्मज (२.१) the son of Dhritarashtra
आत्मसिद्धयेआत्मन्सिद्धि (४.१) for their own success
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
सु हृ दः जा स्त थे रे
मे षां वि ङ्घ न्ति ये
वि या दि या न्ति ते
धृ रा ष्ट्रा त्म मा त्म सि द्ध ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.