उपकारकमायतेर्भृशं
प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां
न तितिक्षासममस्ति साधनम् ॥

अन्वयः AI आयतेः भृशम् उपकारकम्, भूरिणः कर्म-फलस्य प्रसवः, द्विषाम् अनपायि निबर्हणम् (च) तितिक्षा-समम् साधनम् न अस्ति ।
English Summary AI There is no means equal to forbearance, which is highly beneficial for the future, the source of abundant fruits of action, and a sure way to destroy enemies.
सारांश AI भविष्य में महान उपकार करने वाली, प्रचुर फल देने वाली और शत्रुओं का जड़ से विनाश करने वाली 'क्षमा' के समान अन्य कोई साधन नहीं है।
घण्टापथव्याख्या (मल्लिनाथः) उपकारकमिति ॥ आयतेरुत्तरकालस्य भृशमत्यन्तमुपकारकम्।स्थिरफलहेतुरित्यर्थ:। भूरिणः प्रभूतस्य कर्मफलस्य । प्रसूयतेऽनेनेति प्रसवः कारणम् । अपायि न भवतीत्यनपयि स्वयमविनश्यदेव द्विषां निबर्हणं विनाशकमेवंगुणकं साधनं तितिक्षासमं क्षमातुल्यं नास्ति । क्षान्तिः क्षमा तितिक्षा च इत्यमरः (अमरकोशः १.७.२५ ) तिज निशाने इति धातोः गुप्तिज्किद्भ्य: सन् इति क्षमार्थे सन्प्रत्ययः । तितिक्षासममित्यनुक्तोपमेया समास आर्थी लुप्तोपमा, भृशायत्यनपायिशब्दैः साधनान्तरवैलक्षण्याद्व्यतिरेकश्च व्यज्यते । भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये च व्यतिरेकः ॥ ननु तितिक्षया कालक्षेपे दुर्योधनः सर्वान् राज्ञो वशीकुर्यादित्यत्राह
पदच्छेदः AI
उपकारकम्उपकारक (उप√कृ+ण्वुल्, १.१) beneficial
आयतेःआयति (६.१) for the future
भृशम्भृशम् highly
प्रसवःप्रसव (प्र√सू+अप्, १.१) the source
कर्मफलस्यकर्मफल (६.१) of the fruits of action
भूरिणःभूरि (६.१) of abundant
अनपायिअनपायिन् (१.१) unfailing
निबर्हणम्निबर्हण (नि√बर्ह्+ल्युट्, १.१) destruction
द्विषाम्द्विष् (६.३) of enemies
not
तितिक्षासमम्तितिक्षासम (१.१) equal to forbearance
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) there is
साधनम्साधन (१.१) a means
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
का मा ते र्भृ शं
प्र वः र्म स्य भू रि णः
पा यि नि र्ह णं द्वि षां
ति ति क्षा स्ति सा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.