Loading data... On slow networks this could take a few minutes.
100%

किमसामयिकं वितन्वता
मनसः क्षोभमुपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां
भवता धीरतयाधरीकृतः ॥

अन्वयः AI उपात्त-रंहसः मनसः असामयिकम् क्षोभम् वितन्वता भवता, धीरतया अपाम् पतिः उच्चकैः अधरी-कृतः किम् क्रियते?
English Summary AI Why are you, by creating an untimely agitation in your mind which has gathered momentum, making the great lord of the waters (the ocean) seem inferior to your own steadfastness?
सारांश AI धैर्य में समुद्र को भी पीछे छोड़ देने वाले आप, असमय में ही मन के इस तीव्र क्षोभ को बढ़ाकर अपनी गरिमा को क्यों कम कर रहे हैं?
घण्टापथव्याख्या (मल्लिनाथः) किमिति ॥ उपात्तरंहसः प्राप्तत्वरस्य मनसः । समयोऽस्य प्राप्तः सामयिकः। समयस्तदस्य प्राप्तम् (अष्टाध्यायी ५.१.१०४ ) इति ठञ् । स न भवतीत्यसामयिकस्तमप्राप्तकालं क्षोभं वितन्वता भवता धीरतया धैर्यगुणेन । मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषुः इति रसिकाः । अधरीकृतस्तिरस्कृतः । प्रागिति शेषः । अपां पतिः समुद्रः किं किमर्थमुच्चकैरधिकः क्रियते । न पराजितं पुनरुच्चकैः कुर्यादिति भावः । अत्र वितन्वतेति भीमविशेषणत्वेन अपांपतिपदार्थस्योच्चै: करणे हेतुत्वोक्त्या काव्यलिङ्गमलंकारः ॥
पदच्छेदः AI
किम्किम् why
असामयिकम्असामयिक (२.१) an untimely
वितन्वतावितन्वत् (वि√तन्+शतृ, ३.१) by creating
मनसःमनस् (६.१) of the mind
क्षोभम्क्षोभ (√क्षुभ्+घञ्, २.१) agitation
उपात्तरंहसःउपात्त (उप√आप्+क्त)रंहस् (६.१) which has gathered momentum
क्रियतेक्रियते (√कृ भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is being made
पतिःपति (१.१) the lord
उच्चकैःउच्चकैस् greatly
अपाम्अप् (६.३) of the waters (the ocean)
भवताभवत् (३.१) by you
धीरतयाधीरता (३.१) by your steadfastness
अधरीकृतःअधरीकृत (√कृ+च्वि+क्त, १.१) made inferior
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कि सा यि कं वि न्व ता
सः क्षो मु पा त्त रं सः
क्रि ते ति रु च्च कै पां
ता धी या री कृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.