बलवानपि कोपजन्मन-
स्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः
सकला हन्ति स शक्तिसम्पदः ॥

अन्वयः AI यः बलवान् अपि कोप-जन्मनः तमसः अभिभवम् न रुणद्धि, सः क्षय-पक्षः ऐन्दवीः कलाः इव सकलाः शक्ति-सम्पदः हन्ति ।
English Summary AI He who, though powerful, does not check the overwhelming influence of the darkness born of anger, destroys all his resources of power, just as the waning phase of the moon destroys all the lunar digits.
सारांश AI बलवान होने पर भी जो व्यक्ति क्रोध से उत्पन्न मोह को नहीं रोकता, उसकी समस्त शक्तियाँ और संपत्तियाँ कृष्ण पक्ष के चंद्रमा की कलाओं की भाँति धीरे-धीरे नष्ट हो जाती हैं।
घण्टापथव्याख्या (मल्लिनाथः) बलवानिति ॥ बलवाञ्छूरोऽपि यः।कोपज्जन्म यस्य तस्य कोपजन्मनः ।अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः इति वामनः । तमसो मोहस्य । कृद्योगात्कर्तरि षष्ठी,अभिभवमाक्रान्तिं न रुणद्धि न निवारयति । स नृपः । क्षयस्य पक्षः क्षयपक्षः कृष्णपक्ष ऐन्दवीरिन्दुसंबन्धिनीः कला इव । कला तु षोडशो भागः इत्यमरः (अमरकोशः १.३.१७ ) । सकलाः समग्रा: शक्तिसंपदः प्रभुमन्त्रोत्साहशक्तीस्तिस्रोऽपि हन्ति नाशयति । अन्धस्य जङ्घाबलमिव क्रोधान्धस्य लोकोत्तरमपि सामर्थ्यं व्यर्थमेवेत्यर्थः । अत्र कालस्य सर्वकारणत्वात्क्षयपक्षस्य कलाक्षयकारित्वमस्त्येव । तमसस्तु तत्कालविजृम्भणात्तथा व्यपदेशः ॥ विमृष्य कुर्वतः क्रियाप्रकारमाह
पदच्छेदः AI
बलवान्बलवत् (१.१) powerful
अपिअपि though
कोपजन्मनःकोपजन्मन् (६.१) born of anger
तमसःतमस् (६.१) of the darkness
not
अभिभवम्अभिभव (अभि√भू+अप्, २.१) the overwhelming influence
रुणद्धिरुणद्धि (√रुध् कर्तरि लट् (परस्मै.) प्र.पु. एक.) checks
यःयद् (१.१) he who
क्षयपक्षःक्षयपक्ष (१.१) the waning lunar fortnight
इवइव like
ऐन्दवीःऐन्दवी (२.३) lunar
कलाःकला (२.३) digits
सकलाःसकल (२.३) all
हन्तिहन्ति (√हन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) destroys
सःतद् (१.१) he
शक्तिसम्पदःशक्तिसम्पद् (२.३) the resources of power
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वा पि को न्म
स्त सो ना भि वं रु द्धि यः
क्ष क्ष वै न्द वीः लाः
ला न्ति क्ति म्प दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.