शिवमौपयिकं गरीयसीं
फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं
विजितक्रोधरया जिगीषवः ॥

अन्वयः AI विजित-क्रोध-रयाः जिगीषवः शिवम्, औपयिकम्, गरीयसीम्, अदोषिता-आयतिम् फल-निष्पत्तिम् विगणय्य पौरुषम् नयन्ति ।
English Summary AI Those who wish to conquer, having first controlled the impulse of anger, exert their manly effort only after carefully considering a result that is auspicious, suitable, highly significant, and has an untarnished future.
सारांश AI विजय की इच्छा रखने वाले महापुरुष क्रोध के वेग को जीतकर, भविष्य में सुखद परिणाम और महान फल देने वाले पुरुषार्थ का ही सोच-समझकर आश्रय लेते हैं।
घण्टापथव्याख्या (मल्लिनाथः) शिवमिति ॥ जिगीषवो विजयेच्छवो नृपा विजितक्रोधरया जितक्रोधवेगाः सन्तो गरीयसीं प्रभूतामदूषितायतीमक्षतोत्तरकालाम् । स्वन्तामित्यर्थः । फलनिष्पत्तिं फलसिद्धिं विगणय्य । फलवत्त्वं निश्चित्येत्यर्थः । पौरुषं पुरुषकारं शिवमनुकूलमौपयिकमुपायम् । विनयादित्वात्स्वार्थे ठक् । उपायाद्ध्रस्वत्वं च । नयन्ति प्रापयन्ति । पौरुषमुपायेन योजयन्तीत्यर्थः । नानिश्चितफलं कर्म कुर्वत इति भावः । यथाह कामन्दकः—निष्फलं क्लेशबहुलं संदिग्धफलमेव च । न कर्म कुर्यान्मतिमान्सदा वैरानुघन्धि च ॥ इति।नयतिः प्रापनार्थे द्विकर्मकः। अत्र पौरुषस्य कर्तृस्थकर्मत्वेऽप्युपायस्यातथात्वात्क्रोधं विनयत इत्यादिवत् कर्तृस्थेचाशरीरे कर्मणि इत्यात्मनेपदं न भवति ॥ यदुक्तं विजितक्रोधरया इति तदावश्यकमित्याह
पदच्छेदः AI
शिवम्शिव (२.१) auspicious
औपयिकम्औपयिक (२.१) suitable
गरीयसीम्गरीयस् (२.१) most significant
फलनिष्पत्तिम्फलनिष्पत्ति (२.१) result
अदूषितायतिम्अदूषित (√दूष्+क्त)आयति (२.१) with an untarnished future
विगणय्यविगणय्य (वि√गण्+णिच्+ल्यप्) having considered
नयन्तिनयन्ति (√नी कर्तरि लट् (परस्मै.) प्र.पु. बहु.) exert
पौरुषम्पौरुष (२.१) effort
विजितक्रोधरयाःविजित (वि√जि+क्त)क्रोधरय (१.३) those who have conquered the impulse of anger
जिगीषवःजिगीषु (√जि+सन्+उ, १.३) those who wish to conquer
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
शि मौ यि कं री सीं
नि ष्प त्ति दू षि ता तिम्
वि य्य न्ति पौ रु षं
वि जि क्रो या जि गी वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.