Loading data... On slow networks this could take a few minutes.
100%

स्पृहणीयगुणैर्महात्मभि-
श्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां
विनिपातोऽपि समः समुन्नतेः ॥

अन्वयः AI स्पृहणीय-गुणैः महात्मभिः चरिते वर्त्मनि मनः यच्छताम्, आगसाम् अहेतुः, विधि-हेतुः विनिपातः अपि समुन्नतेः समः (भवति) ।
English Summary AI For those who direct their minds to the path trodden by great souls with enviable virtues, even a downfall, if caused by fate and not by their own transgressions, is equivalent to rising high.
सारांश AI गुणवान महापुरुषों द्वारा अपनाए गए मार्ग पर चलने वालों के लिए, प्रारब्ध के कारण आया हुआ पतन भी उन्नति के समान ही सम्मानजनक होता है।
घण्टापथव्याख्या (मल्लिनाथः) स्पृहणीयेति ॥ स्पृहणीयगुणैर्लोकश्लाघ्यगुणैर्महात्मभिः सज्जनैश्चरितेऽनुष्ठिते वर्त्मन्याचारे मनो यच्छतां निदधताम् । सन्मार्गेण व्यवहरतामित्यर्थः। विधिहेतुर्दैवनिमित्तकः । विधिर्विधाने दैवे च इत्यमरः (अमरकोशः ३.३.१०७ ) । अतएवागसामपराधानामहेतुर्विनिपातो दैविकानर्थोऽपि। 'विनिपातोऽपाते स्याद्दैवादिव्यसनेऽपि च' इति विश्वः । समुन्नतेरति वृद्धेः समस्तुल्य: । दैविकेषु पुरुषस्यानुपालभ्यत्वादिति भावः । यथाह कामन्दकः-'यत्तुसम्यगुपक्रान्त' कार्यमेति विपर्ययम् । पुरुषस्त्वनुपालभ्योदैवान्तरितपौरुषः॥'इति॥ संप्रति यद्धिष्मृयं तदाह
पदच्छेदः AI
स्पृहणीयगुणैःस्पृहणीय (√स्पृह्+अनीयर्)गुण (३.३) by (those with) enviable virtues
महात्मभिःमहात्मन् (३.३) by the great souls
चरितेचरित (√चर्+क्त, ७.१) trodden
वर्त्मनिवर्त्मन् (७.१) on the path
यच्छताम्यच्छत् (√यम्+शतृ, ६.३) of those who direct
मनःमनस् (२.१) their mind
विधिहेतुःविधिहेतु (१.१) caused by fate
अहेतुःअहेतु (१.१) not caused
आगसाम्आगस् (६.३) by transgressions
विनिपातःविनिपात (वि+नि√पत्+घञ्, १.१) a downfall
अपिअपि even
समःसम (१.१) is equal
समुन्नतेःसमुन्नति (सम्+उद्√नम्+क्तिन्, ६.१) to rising high
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
स्पृ णी गु णै र्म हा त्म भि
श्च रि ते र्त्म नि च्छ तां नः
वि धि हे तु हे तु रा सां
वि नि पा तो ऽपि मः मु न्न तेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.