शुचि भूषयति श्रुतं वपुः
प्रशमस्तस्य भवत्यलंक्रिया ।
प्रशमाभरणं पराक्रमः
स नयापादितसिद्धिभूषणः ॥

अन्वयः AI श्रुतम् शुचि वपुः भूषयति । प्रशमः तस्य अलंक्रिया भवति । पराक्रमः प्रशम-आभरणम् (भवति) । सः (पराक्रमः) नय-आपादित-सिद्धि-भूषणः (भवति) ।
English Summary AI Learning adorns a pure body. Tranquility becomes its ornament. Valor is the ornament of tranquility, and that valor is itself adorned by success achieved through sound policy.
सारांश AI पवित्र शास्त्र ज्ञान शरीर की शोभा बढ़ाता है, आत्मिक शांति उस ज्ञान का आभूषण है, पराक्रम शांति को सुशोभित करता है और नीति सम्मत सफलता उस पराक्रम का गहना है।
घण्टापथव्याख्या (मल्लिनाथः) शुचीति ॥ शुचि संप्रदायशुद्धं श्रुतं शास्त्रश्रवणं कर्तुं वपुर्भूषयति । अन्यथाविद्वान्पुरुषः शोच्य इति भावः। तस्य श्रुतस्य प्रशमः क्रोधोपशान्तिरलंक्रिया भूषणं भवति । अन्यथा श्रुतवैफल्यादिति भावः । पराक्रमः सत्यवसरे शौर्यं प्रशमस्याभरणं भवति । अन्यथा सर्वैः परिभूयत इति भावः । स पराक्रमः । नयापादिता नीतिसंपादिता । विवेकपूर्विकेति यावत् । सा चासौ सिद्धिश्च सैव भूषणं यस्य स तथोक्तः । अन्यथा साहसिकस्य सिद्धिः काकतालीयत्वेन पक्षे पराक्रमवैयर्थ्यं स्यादिति भावः । 'वपुषो भूष्यतैवात्र सिद्धेर्भूषणतैव तु । उभयं मध्यमानां तु तेषां पूर्वोत्तरेच्छया ॥' इति विवेकः । एवंविशिष्टसिद्धेरनन्यभूषिताया एव भूषणत्वोक्त्या सर्वोत्तरतया स्तुतिर्गम्यते । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषणत्वादेकावल्यलंकारः । तदुक्तम्—‘यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव । भजति परं परमेषालंकृतिरेकावली कथिता ॥' इति ॥ विमृष्य कुर्यादिति स्थितम् । तत्र विमर्षोपायः क इत्युक्ते शास्त्रमेवेत्याह
पदच्छेदः AI
शुचिशुचि (२.१) a pure
भूषयतिभूषयति (√भूष् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) adorns
श्रुतम्श्रुत (√श्रु+क्त, १.१) learning
वपुःवपुस् (२.१) body
प्रशमःप्रशम (प्र√शम्+घञ्, १.१) tranquility
तस्यतद् (६.१) its
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) becomes
अलंक्रियाअलंक्रिया (१.१) an ornament
प्रशमाभरणम्प्रशमआभरण (१.१) the ornament of tranquility
पराक्रमःपराक्रम (परा√क्रम्+घञ्, १.१) valor
सःतद् (१.१) it
नयापादितसिद्धिभूषणःनय–आपादित (आ√पद्+णिच्+क्त)सिद्धिभूषण (१.१) is adorned by success achieved through policy
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
शु चि भू ति श्रु तं पुः
प्र स्त स्य त्य लं क्रि या
प्र मा णं रा क्र मः
या पा दि सि द्धि भू णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.