Loading data... On slow networks this could take a few minutes.
100%

अभिवर्षति योऽनुपालय-
न्विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां
शरदं लोक इवाधितिष्ठति ॥

अन्वयः AI यः विवेक-वारिणा विधि-बीजानि अनुपालयन् अभिवर्षति, सः लोकः शरदम् इव सदा फल-शालिनीम् क्रियाम् अधितिष्ठति ।
English Summary AI He who nurtures the seeds of policy by watering them with discrimination, while constantly protecting them, always attains fruitful action, just as the world attains a fruitful autumn season.
सारांश AI जो व्यक्ति विवेक रूपी जल से कर्म रूपी बीजों की रक्षा करता है, वह शरद ऋतु के समान सदा उत्तम फल देने वाली क्रियाओं का आनंद प्राप्त करता है।
घण्टापथव्याख्या (मल्लिनाथः) अभीति ॥ यः पुमान् । विधीयन्त इति विधयः कृत्यवस्तूनि बीजानीवेत्युपमितसमासः । शरदं लोक इवेति वाक्यगतोपमानुसारात्। तानि विधिबीजानि। विवेको वारीव तेन विवेकवारिणा । पूर्ववत्समासः । अनुपालयन्प्रतीक्षमाणः संरक्षन्नमिवर्षति सिञ्चति । स पुमान् ।फलं साधननिष्पाद्योऽर्थः, सस्यं च ।सस्ये हेतुकृते फलम् इत्युभयत्राप्यमरः । तच्छालिनीं क्रियां कर्म लोको जनः । लोकस्तु भुवने जने इत्यमरः (अमरकोशः ३.३.२ ) । शरदमिव सदा नित्यमधितिष्ठति । सदा क्रियाफलं प्राप्नोत्येव । न कदाचिद्व्यभिचरतीत्यर्थः । साहसिकस्य काकतालीयन्यायेन फलसिद्धिर्विवेकिनस्तु नियतेति भावः । अत्र फलशब्देन सस्यहेतुकृतयोरर्थयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिस्तदनुगृहीता चोपमेत्यनुसंधेयम् ॥ नियता विवेकिनः फलसिद्धिरित्युक्तम् । संप्रति तामेव रुच्यर्थं स्तौति
पदच्छेदः AI
अभिवर्षतिअभिवर्षति (अभि√वृष् कर्तरि लट् (परस्मै.) प्र.पु. एक.) nurtures
यःयद् (१.१) he who
अनुपालयन्अनुपालयत् (अनु√पाल्+णिच्+शतृ, १.१) protecting
विधिबीजानिविधिबीज (२.३) the seeds of policy
विवेकवारिणाविवेकवारि (३.१) with the water of discrimination
सःतद् (१.१) he
सदासदा always
फलशालिनीम्फलशालिनी (२.१) fruitful
क्रियाम्क्रिया (२.१) action
शरदम्शरद् (२.१) autumn
लोकःलोक (१.१) the world
इवइव like
अधितिष्ठतिअधितिष्ठति (अधि√स्था कर्तरि लट् (परस्मै.) प्र.पु. एक.) attains
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
भि र्ष ति यो ऽनु पा
न्वि धि बी जा नि वि वे वा रि णा
दा शा लि नीं क्रि यां
दं लो वा धि ति ष्ठ ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.