Loading data... On slow networks this could take a few minutes.
100%

सहसा विदधीत न क्रिया-
मविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं
गुणलुब्धाः स्वयमेव सम्पदः ॥

अन्वयः AI सहसा क्रियाम् न विदधीत । अविवेकः परम-आपदाम् पदम् (अस्ति) । हि गुण-लुब्धाः सम्पदः विमृश्य-कारिणम् स्वयम् एव वृणते ।
English Summary AI One should not act rashly, for thoughtlessness is the source of the greatest calamities. Indeed, fortunes, themselves desirous of virtues, of their own accord choose a person who acts with due deliberation.
सारांश AI किसी भी कार्य को बिना सोचे-समझे अचानक नहीं करना चाहिए, क्योंकि विवेकहीनता घोर विपत्तियों का घर है। गुणों की लोभी संपत्तियाँ स्वयं ही सोच-समझकर कार्य करने वाले व्यक्ति का चुनाव करती हैं।
घण्टापथव्याख्या (मल्लिनाथः) सहसेति ॥ क्रियत इति क्रियां कार्यं सहसा। अविमृष्येत्यर्थः 'सहसेत्याकस्मिकाविमर्षयोः' इति गणव्याख्याने स्वरादिपाठादव्ययम्। न विदधीत न कुर्वीत । कुतः । अविवेकोऽविमृष्यकारित्वं परमत्यन्तमापदां पदं स्थानम् । कारणमित्यर्थः । व्यतिरकेणोक्तमर्थमन्वयेनाह—वृणत इति । गुणलुब्धा गुणगृध्नव इति स्वयंवरहेतूक्तिः। संपदः श्रियः । विमृष्य करोतीति विसृष्यकारी। उपपदमतिङ् (अष्टाध्यायी २.२.१९ ) इति समासः । तं स्वयमेव वृणते भजन्ते हि । 'वृङ् संभक्तौ इति धातुः । तस्माद्विमृष्यैव प्रवर्तितव्यमित्यर्थः । अत्र सहसा विधाननिषेधलब्धविमृष्यकारित्वरूपकारणस्यापद्रूपव्यतिरेककार्येण समर्थनाद्वैधर्म्येणार्थान्तरन्यासः । द्वितयार्धेन च स एव साधर्म्येणेति ज्ञेयम् । ननु साहसिकस्यापि फलासिद्धिर्दृश्थत एव । तत्किं विवेकेनेत्यत्राह
पदच्छेदः AI
सहसासहसा hastily
विदधीतविदधीत (वि√धा कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) one should do
not
क्रियाम्क्रिया (२.१) an action
अविवेकःअविवेक (१.१) thoughtlessness
परमापदाम्परमआपद् (६.३) of the greatest calamities
पदम्पद (१.१) the source
वृणतेवृणते (√वृ कर्तरि लट् (आत्मने.) प्र.पु. बहु.) choose
हिहि for
विमृश्यकारिणम्विमृश्य (वि√मृश्+ल्यप्)कारिन् (√कृ+णिनि, २.१) one who acts with deliberation
गुणलुब्धाःगुणलुब्ध (१.३) desirous of virtues
स्वयम्स्वयम् themselves
एवएव indeed
सम्पदःसम्पद् (१.३) fortunes
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
सा वि धी क्रि या
वि वे कः मा दां दम्
वृ ते हि वि मृ श्य का रि णं
गु लु ब्धाः स्व मे म्प दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.