Loading data... On slow networks this could take a few minutes.
100%

अवितृप्ततया तथापि मे
हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं
न विधेयेषु विशेषसम्पदः ॥

अन्वयः AI तथापि अवितृप्ततया मे हृदयं निर्णयम् एव धावति । विधेयेषु विशेषसम्पदः सुखम् अवसाययितुं न क्षमाः (भवन्ति) ।
English Summary AI Nevertheless, due to my insatiable desire to hear more, my heart still rushes towards a final conclusion. An abundance of excellent points regarding matters to be undertaken cannot be easily brought to a close.
सारांश AI यद्यपि मैं तुम्हारी बातों से संतुष्ट हूँ, फिर भी मेरा मन सही निर्णय की ओर दौड़ रहा है। श्रेष्ठ कार्यों की सफलता केवल उचित परामर्श मात्र से पूर्णतः सिद्ध नहीं हो जाती।
घण्टापथव्याख्या (मल्लिनाथः) अवितृप्ततयेति ॥ तथापि त्वया सम्यङ्निर्णीतेऽपि मे हृदयमवितृप्ततयासंतुष्टतया । अद्यापि संशयगतत्वेनेत्यर्थः । निर्णयमेव धावत्यनुसरति । अपेक्षत इति यावत् । अद्यापि निर्णयस्यानुदयादिति भावः । निर्णयानुदये हेतुमाह—अवेति । विधेयेषु संधिविग्रहादिकर्तव्यार्थेषु या विशेषसंपदोऽवान्तरभेदभूमानस्ताः सुखमक्लेशेनावसाययितुम् । पुरुषान्प्रत्यानुकूल्येन स्वस्वरूपं स्वयमेव शीघ्रं प्रत्याययितुमित्यर्थः। स्यतेर्ण्यन्तादणि कर्मकर्तृकात्तुमुन् । णेरनादिसुत्रस्यायं विषयः । क्षमन्त इति क्षमाः । पचाद्यच् । शक्ता न भवन्ति ।क्षमं शक्ते हिते त्रिषु इत्यमरः (अमरकोशः ३.३.१५१ ) । विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्म्याद्बाहुल्याच्च दुर्ज्ञेयत्वादद्यापि निर्णयाकाङ्क्षेति तात्पर्यार्थः।अत्र निर्णयधावनं प्रत्युत्तरवाक्यार्थस्य हेतुत्वाभिधानाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तदुक्तम्-‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति । वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशंक्याह—सहसा विधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः
पदच्छेदः AI
अवितृप्ततयाअवितृप्तता (३.१) due to insatiability
तथापितथापि nevertheless
मेअस्मद् (६.१) my
हृदयम्हृदय (१.१) heart
निर्णयम्निर्णय (२.१) towards a conclusion
एवएव only
धावतिधावति (√धाव् कर्तरि लट् (परस्मै.) प्र.पु. एक.) rushes
अवसाययितुम्अवसाययितुम् (अव√सो+णिच्+तुमुन्) to bring to a conclusion
क्षमाःक्षम (१.३) able
सुखम्सुखम् easily
not
विधेयेषुविधेय (७.३) in matters to be done
विशेषसम्पदःविशेषसम्पद् (१.३) abundance of excellence
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि तृ प्त या था पि मे
हृ यं नि र्ण मे धा ति
सा यि तुं क्ष माः सु खं
वि धे ये षु वि शे म्प दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.