स्फुटता न पदैरपाकृता
न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां
न च सामर्थ्यमपोहितं क्वचित् ॥

अन्वयः AI (त्वया) पदैः स्फुटता न अपाकृता, अर्थगौरवं च न न स्वीकृतम् । गिरां पृथगर्थता रचिता, क्वचित् सामर्थ्यं च न अपोहितम् ।
English Summary AI Clarity has not been sacrificed for the words, and profundity of meaning has certainly been embraced. You have constructed your speech so that words have distinct meanings, and nowhere has its overall efficacy been diminished.
सारांश AI तुम्हारी वाणी में न तो शब्दों की स्पष्टता की कमी है और न ही अर्थ की गंभीरता की उपेक्षा की गई है। शब्दों के अर्थ अलग-अलग और स्पष्ट हैं और कहीं भी उनकी सामर्थ्य कम नहीं हुई है।
घण्टापथव्याख्या (मल्लिनाथः) स्फुटतेति । उपपत्तिरिति च ॥ पदैः सुप्तिङन्तशब्दैः स्फुटता विशदार्थता नापाकृता न त्यक्ता। अर्थगौरवमर्थभूयस्त्वं च न न स्वीकृतम्। स्वीकृतमेवेत्यर्थः । वैशद्यप्रसक्तार्थगौरवाभावनिवर्तनार्थं नञ्द्वयम् । ‘संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ इति वामनः। गिरां पदानामवान्तरवाक्यानां च पृथगर्थता भिन्नार्थता । अपुनरुक्तार्थतेति यावत् । रचिता कृता । तथा क्वचिदपि सामर्थ्यं गिरामन्योन्यसाकाङ्क्षत्वं नापोहितं न वर्जितम् । अन्यथा दृशदाडिमादिशब्दवदेकवाक्यता न स्यात् । यथाहु:—‘अर्थैकत्वादेकं वाक्यं सापेक्षा चेद्विभागे स्यात् इति । नन्वर्थगौरवमित्यत्र कथं पष्ठीसमासः। पूरणगुण- (अष्टाध्यायी २.२.११ ) इत्यादिना प्रतिषेधात् । नैष दोषः । ये शुक्लादयः शब्दागुणे गुणिनि च वर्तन्ते । यथा पटस्य शौक्ल्य्म् शुक्ल: पट इति च तेषामेवात्र निषेधात् । ये पुनः स्वतो गुणमात्रवचना यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्येवमादयः। तेषामनिषेधात् । तथा तत्स्थैश्च गुणैः षष्ठी समस्यते इति वचनाद्वहुलमभियुक्तप्रयोगदर्शनाच्च । बलाकायाः शौक्ल्यमित्यादौ तु भाष्यकारवचनादसमासः । अत एवाह वामनः—पत्रपीतिमादिषु गुणवचनसमासो बालिश्यात् इति ॥
पदच्छेदः AI
स्फुटतास्फुटता (१.१) clarity
not
पदैःपद (३.३) by the words
अपाकृताअपाकृत (अप+आ√कृ+क्त, १.१) set aside
not
and
not
स्वीकृतम्स्वीकृत (√कृ+क्त, १.१) accepted
अर्थगौरवम्अर्थगौरव (१.१) profundity of meaning
रचितारचित (√रच्+क्त, १.१) constructed
पृथगर्थतापृथक्–अर्थता (१.१) distinctness of meaning
गिराम्गिर् (६.३) of the words
not
and
सामर्थ्यम्सामर्थ्य (१.१) efficacy
अपोहितम्अपोहित (अप√ऊह्+क्त, १.१) diminished
क्वचित्क्वचित् anywhere
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
स्फु ता दै पा कृ ता
स्वी कृ र्थ गौ वम्
चि ता पृ र्थ ता गि रां
सा र्थ्य पो हि तं क्व चित्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.