Loading data... On slow networks this could take a few minutes.
100%

ज्वलतस्तव जातवेदसः
सततं वैरिकृतस्य चेतसि ।
विदधातु शमं शिवेतरा
रिपुनारीनयनाम्बुसन्ततिः ॥

अन्वयः AI रिपुनारीनयनाम्बुसन्ततिः शिवेतरा (सती) चेतसि सततं ज्वलतः वैरिकृतस्य तव जातवेदसः शमं विदधातु ।
English Summary AI May the inauspicious stream of tears from the eyes of your enemies' wives quench the fire of your anger, which, kindled by your foes, burns constantly in your heart.
सारांश AI शत्रुओं द्वारा आपके हृदय में निरंतर प्रज्वलित की गई क्रोध रूपी अग्नि को, उन्हीं शत्रुओं की स्त्रियों के नेत्रों से बहने वाली आंसुओं की धाराएं शांत करें अर्थात् आप विजय प्राप्त करें।
घण्टापथव्याख्या (मल्लिनाथः) ज्वलत इति ॥ तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः। शिवेतराशिवामङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसंततिर्वैरिवनिताश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसंभवादवश्यं तद्वधस्त्वदा कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलंकारः । तदुक्तम्-विषयस्यानुपादानाद्विषय्युपनिबध्यते। यत्र सातिशयोक्तिः स्यात्कवेः प्रोढोक्तिजीविता ॥ इति । तत्रापि क्रोधस्य जातवेदसो भेदेऽप्यभेदाध्यवसायाद्भेदेऽभेदरूपा । ततः एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च यथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ॥
पदच्छेदः AI
ज्वलतःज्वलत् (√ज्वल्+शतृ, ६.१) of the burning
तवयुष्मद् (६.१) your
जातवेदसःजातवेदस् (६.१) of the fire (of anger)
सततम्सततम् constantly
वैरिकृतस्यवैरिकृत (६.१) caused by the enemy
चेतसिचेतस् (७.१) in the mind
विदधातुविदधातु (वि√धा कर्तरि लोट् (परस्मै.) प्र.पु. एक.) may it bring about
शमम्शम (२.१) quenching
शिवेतराशिवइतरा (१.१) inauspicious
रिपुनारीनयनाम्बुसन्ततिःरिपुनारीनयनअम्बुसन्तति (१.१) the stream of tears from the eyes of the enemy's wives
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ज्व स्त जा वे सः
तं वै रि कृ स्य चे सि
वि धा तु मं शि वे रा
रि पु ना री ना म्बु न्त तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.